अतिक्रमणं कथंचित् न सह्यते, आरोपितेषु तत्कालं करणीया कार्यवाही :मुख्यमंत्री योगी
-मथुरातः आगतस्य वृद्धस्य परिवादे मुख्यमंत्री मथुरायाः जनपदाधिकारिणा दत्तो निर्देशः लखनऊ, 22 जूनमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे प्रातःकाले ‘जनतादर्शनम्’ अकरोत्। अस्मिन् अवसरे तेन प्रदेशस्य विविधजनपदेभ्यः आगतानां सर्वेषां निवेद
जनता दर्शन में समस्याएं सुनते मुख्यमंत्री योगी


-मथुरातः आगतस्य वृद्धस्य परिवादे मुख्यमंत्री मथुरायाः जनपदाधिकारिणा दत्तो निर्देशः

लखनऊ, 22 जूनमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे प्रातःकाले ‘जनतादर्शनम्’ अकरोत्। अस्मिन् अवसरे तेन प्रदेशस्य विविधजनपदेभ्यः आगतानां सर्वेषां निवेदकानां सह एकैकशः भेंटः कृता। तेषां प्रार्थनापत्राणि स्वीकृतानि तथा समस्याः श्रुताः। मुख्यमन्त्रिणा सर्वासां परिवादानां समुचितसमयबद्धनिस्तारणार्थम् अधिकारिणः निर्देशिताः। अपरं अतिक्रमणस्य शिकायतां श्रुत्वा मुख्यमन्त्री कठोरः अभवत् तथा तत्क्षणमेव तस्याः परीक्षणं कारयित्वा दोषिषु कार्यवाहीं कर्तुं निर्देशम् अददात्।

‘जनतादर्शने’ मथुराजनपदात् एकः वृद्धः अपि शिकायतया सह आगतः। तेन मुख्यमन्त्रिणे निवेदितं यत् चकरोडमार्गे अतिक्रमणं कृतम् अस्ति। अस्य विषये स्थानीयस्तरे पूर्वमेव शिकायतापत्रं दत्तम् अस्ति, किन्तु अद्यावधि कापि कार्यवाही न जाता। अस्मिन् विषये मुख्यमन्त्री कठोरं दृष्टिकोणम् अवलम्ब्य जिलाधिकारिणं निर्देशितवान् यत् सः स्वयं स्थलं गत्वा यथास्थितिं पश्यतु। यदि अतिक्रमणं सिद्ध्यति तर्हि तत् तत्क्षणमेव अपासार्य दोषिषु कार्यवाही क्रियताम्। मुख्यमन्त्री पुनरपि उक्तवान् यत् अतिक्रमणसम्बद्धा शिकायताः कदापि सहनीयाः न सन्ति। सर्वे अधिकारिणः, प्रशासनम्, पुलिसविभागः, नगरनिगमः, विकासप्राधिकरणम् तथा उत्तरदायिसंस्थाः अस्य नियमितं निरीक्षणम् अपि कुर्वन्तु।

शिक्षा स्वास्थ्य आर्थिकसहायता इत्यादिषु सर्वेषु पक्षेषु सर्वकारस्य ध्यानम्

‘जनतादर्शने’ शिक्षा, स्वास्थ्यं, आर्थिकसहायता, विद्युत्ताराः, पुलिसविभागः, राजस्वविभागः इत्यादिभिः सम्बद्धानि प्रार्थनापत्राणि अपि प्राप्तानि। मुख्यमन्त्री सर्वाणि प्रार्थनापत्राणि स्वीकृत्य पीडितानां कथाः श्रुतवान्, ततः तान् आश्वासितवान् यत् सर्वकारः जनतायाः सर्वासां मूलभूतावश्यकतानां पूर्त्यर्थं कार्यं करोति। भवतां सर्वासां समस्याः अपि समाधास्यन्ते। कस्यापि चिन्तायाः आवश्यकता नास्ति। सर्वकारः सर्वासु परिस्थितिषु प्रदेशस्य पञ्चविंशतिकोटिजनानां सह दृढतया तिष्ठति।

मुख्यमन्त्री प्रथमं तीव्रग्रीष्मे आगतानां निवेदकानां कुशलप्रश्नम् अकरोत्, ततः तेषां समस्याः अपृच्छत्। मुख्यमन्त्री विविधजनपदेभ्यः आगतेभ्यः जनेभ्यः उक्तवान् यत् अधुना उष्णता आतपश्च अत्यधिकौ स्तः। वृद्धेभ्यः, महिलाभ्यः तथा बालकेभ्यः अपि तेन उक्तं यत् अत्यावश्यकतायामेव मध्याह्ने गृहात् निर्गन्तव्यम्। मुख्यमन्त्री संयमितभोजनस्य पालनाय अपि उपदिष्टवान्।

Hindusthan Samachar / Dheeraj Maithani