वनवासीबस्त्यां रात्रिजनचौपालस्य आयोजनम्, योजनानां लाभप्रदानाय निर्देशाः - ए.के. शर्मा
जौनपुरम्, २२ जूनमास: (हि.स.)। उत्तरप्रदेशस्य जौनपुरजनपदस्य प्रभारिमन्त्रिणः ए.के. शर्मा महोदयस्य निर्देशानुसारं रविवासरे विकासखण्डस्य रामपुरस्य पट्टीकीरतराय-ग्रामपञ्चायते स्थिते अटल-आवासीय-परिसरे रात्रिजन-चौपालस्य आयोजनम् अभवत्। अस्मिन् कार्यक्रमे
वर्चुअल बैठक के दौरान लोगों को आयुष्मान कार्ड प्रदान करते हुए पूर्व गृह राज्यमंत्री कृपा शंकर सिंह विधायक डॉ आर के पटेल


जिले के प्रभारी मंत्री ए के शर्मा वर्चुअल मीटिंग लेते हुए


जौनपुरम्, २२ जूनमास: (हि.स.)। उत्तरप्रदेशस्य जौनपुरजनपदस्य प्रभारिमन्त्रिणः ए.के. शर्मा महोदयस्य निर्देशानुसारं रविवासरे विकासखण्डस्य रामपुरस्य पट्टीकीरतराय-ग्रामपञ्चायते स्थिते अटल-आवासीय-परिसरे रात्रिजन-चौपालस्य आयोजनम् अभवत्।

अस्मिन् कार्यक्रमे विधायकः डॉ. आर.के. पटेलः, ब्लॉकप्रमुखः राहुलसिंहः, भाजपाजनपदाध्यक्षः डॉ. अजयसिंहः, पूर्वगृहराज्यमन्त्री कृपाशङ्करसिंहः, पूर्वविधायिका सुषमापटेलः, जनपदाधिकारी सैमुअलपॉल: एन. तथा मुख्यविकासाधिकारी ध्रुवखाडिया च उपस्थिताः आसन्।

आभासीयमाध्यमेन सम्बद्धः प्रभारिमन्त्री अधिकारिणः निर्देशितवान् यत् पात्रपरिवारेभ्यः आवासयोजना, राशनपत्रम्, आयुष्मानपत्रम् तथा निवृत्ति-वेतनयोजनानां लाभः शीघ्रं प्रदीयताम्। सः सर्वाः जनकल्याण-कारीयोजनाः अन्तिम-जनपर्यन्तं प्राप्नुयुः तथा ग्रामेषु मूलभूतसुविधाः सुनिश्चिताः भवन्तु इति विशेषं बलम् अददात्।

विधायकः डॉ. आर.के. पटेलः अवदत् यत् रात्रिजनचौपालस्य मुख्योद्देश्यं विविध-योजनानां प्रभावीकार्यन्वयनस्य समीक्षणम् अस्ति। अन्यैः वक्तृभिरपि पात्रजनानां समीपे योजनानां लाभप्रदानस्य आवश्यकता प्रतिपादिता।

कार्यक्रमे विविधविभागानां प्रदर्शिनी-कक्षाणां निरीक्षणं कृतम्, वृक्षारोपणं सम्पन्नम्, तथा मुख्यमन्त्री-युवोद्यमि-विकासयोजनायाः अन्तर्गतं द्वाभ्यां लाभार्थिभ्यां ई-रिक्शायानद्वयं वितरितम्। विविधसर्वकारीयोजनानां लाभार्थिभ्यश्च प्रमाणपत्राणि प्रदत्तानि। जनपदाधिकारी आश्वासनं दत्तवान् यत् अवशिष्टाः सर्वे पात्रजनाः अपि शीघ्रमेव योजनानां लाभं प्राप्स्यन्ति। अस्मिन् कार्यक्रमे जनप्रतिनिधयः, अधिकारिणः, कर्मचारीणः तथा बहुसंख्यकाः ग्रामवासिनः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan