Enter your Email Address to subscribe to our newsletters

तेहरानम्/स्विट्जरलैंडम्, 22 जूनमासः (हि.स.)।
इराणदेशस्य विदेशमन्त्री अब्बास अराक्ची उक्तवान् यत् पाकिस्तानदेशस्य कतारदेशस्य च मध्यस्थतया क्षेत्रीयसंघर्षस्य समापनदिशि महत्त्वपूर्णा प्रगतिः अभवत्, किन्तु लेबनानदेशे युद्धविरामस्य प्रभावी क्रियान्वयनम् अद्यापि महान् परीक्षाविषयः वर्तते।
इराणस्य शासकीयवार्तासंस्था प्रेसटीवी इत्यनेन सूचितं यत् सोमवासरे सामाजिकमाध्यममञ्चे एक्स इत्यत्र प्रकाशिते वक्तव्ये अराक्ची पाकिस्तानस्य कतारस्य च अक्लान्तमध्यस्थतां प्रशंसन् उक्तवान् यत् संघर्षसमापनदिशि अनेकानि सकारात्मकानि पदानि स्वीकृतानि सन्ति। तेन दावा कृतः यत् तैलपेट्रोरसायननिर्यातसम्बद्धाः कतिपयाः रियायतयः प्रदत्ताः, केषाञ्चन प्रतिबन्धानां शिथिलीकरणम् अभवत् तथा पुनर्निर्माणविकासयोजनासु कार्यम् आरब्धम्। तथापि तेन स्पष्टतया उक्तं यत् एतेषां प्रयत्नानां वास्तविकसफलता लेबनानदेशे युद्धविरामस्य पूर्णक्रियान्वयने एव अवलम्बते।
एतत् वक्तव्यं तस्मिन् समये प्रकाशितम् यदा इराणदेशस्य अमेरिकादेशस्य च मध्ये स्विट्जरलैण्डदेशे उच्चस्तरीयप्राविधिकवार्तायाः प्रथमचरणं सम्पन्नम्। इराणीअधिकारिणां मते अमेरिकादेशस्य राष्ट्रपतिना डोनाल्ड ट्रम्प इत्यनेन कृतानां नवीनटिप्पणीनां धमकीपूर्णवक्तव्यानां च अनन्तरं बहुपक्षीयचतुष्पक्षीयबैठकाः स्थगिताः, किन्तु प्राविधिकस्तरे संवादस्य निरन्तरता विषये सहमतिः अभवत्।
इराणीविदेशमन्त्रालयस्य प्रवक्ता इस्माइल बघाई उक्तवान् यत् वार्तायाः प्रमुखोद्देश्यं पूर्वसम्पन्नसमझौतानां क्रियान्वयनविषये चर्चा आसीत्। तेन उक्तं यत् युद्धसमाप्तेः क्षेत्रीयस्थैर्यस्य च विना कस्यापि अन्तिमसमझौतस्य प्राप्तिः सम्भवा न भविष्यति। वार्तासु इराणस्य तैलविक्रयसम्बद्धप्राधिकरणम्, स्थगितवित्तीयसंसाधनानां विमोचनम्, होर्मुज जलडमरूमध्येन नौकानां सुरक्षितगमनागमनम् इत्यादिषु विषये अपि प्रगतिः अभवत्। तेन उक्तं यत् इराणदेशः अमेरिकीप्रतिबद्धतानां क्रियान्वयनं प्रति सूक्ष्मदृष्टिं धारयिष्यति।
अस्मिन् मध्ये कतारदेशः पाकिस्तानदेशश्च संयुक्तवक्तव्यं प्रकाशित्य वार्तां सकारात्मकां रचनात्मकां च अवदताम्। वक्तव्ये उक्तं यत् भविष्यकालीनप्राविधिकचर्चानां कृते संस्थागततन्त्रस्य विकासः तथा राजनैतिकपर्यवेक्षणार्थम् उच्चस्तरीयसमितेः गठनम् इति विषये सहमतिः अभवत्।
सूत्राणां मते इराणदेशेन स्पष्टतया उक्तं यत् लेबनानदेशं समावेश्य सर्वेषु मोर्चेषु सैन्यकार्यवादसमापनसम्बद्धशर्तानां पूर्णक्रियान्वयनं विना अन्येषु विषयेषु अग्रे गन्तुं न शक्यते।
अन्यत्र अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड ट्रम्प इत्यस्य नवीनटिप्पणीषु प्रतिक्रिया प्रददन् इराणीसंसदः अध्यक्षः मोहम्मद बाकर गालिबाफ उक्तवान् यत् दबावेन धमकीभिश्च इराणस्य नीतिषु कश्चन परिवर्तनः न भविष्यति। तेन चेतावनी प्रदत्ता यत् इराणीसशस्त्रबलानि कस्यापि परिस्थितीनां प्रत्युत्तरं दातुं सज्जानि सन्ति।
क्षेत्रीयशैथिल्यस्य मध्ये लेबनानदेशे युद्धविरामपालनम् इराणअमेरिकादेशयोः वार्तानां प्रगतिः च आगामिदिनेषु पश्चिमएशियाराजनीतेः महत्त्वपूर्णकेन्द्रं भविष्यति।
----------------
Hindusthan Samachar / Dheeraj Maithani