Enter your Email Address to subscribe to our newsletters

मुम्बईनगरम्, २२ जूनमासः (हि.स.)। महाराष्ट्रस्य राज्यपालः जिष्णुदेववर्मा सोमवासरे मुम्बईनगरे उक्तवान् यत् कृत्रिमबुद्धिः सृजनात्मकक्षेत्राय असीमाः सम्भावनाः समानीतवती अस्ति, किन्तु तस्याः उपयोगः अत्यन्तम् उत्तरदायित्वेन विवेकपूर्वकं च करणीयः। सः अवदत् यत् कृत्रिमबुद्धिः परिवर्तनकारी शक्तिरस्ति, परन्तु तस्याः उपयोगकाले चलचित्रनिर्मातॄणां सर्जकानां च बौद्धिकसम्पदधिकाराणां संरक्षणं सुनिश्चितं कर्तव्यम्।
राज्यपालस्य उपस्थितौ अद्य लघुकथाचलच्चित्राणां, वृत्तचित्राणां तथा चलच्चित्रित-चित्राणां उन्नविंशतितमस्य द्विवार्षिकस्य मुम्बई-अन्ताराष्ट्रिय-चलच्चित्रमहोत्सवस्य शुभारम्भः अभवत्। अस्मिन् अवसरे समारोहम् सम्बोधयन् राज्यपालः अवदत् यत् विगतवर्षेषु मिफ्फ वृत्तचित्र-लघुकथा-चलच्चित्राणां तथा चलच्चित्रित-चित्राणाम् एकः प्रतिष्ठितः अन्ताराष्ट्रियमहोत्सवः जातः अस्ति। सः अस्मारयत् यत् गतवर्षे प्रधानमन्त्री नरेन्द्रमोदी मुम्बईनगरे विश्व-श्रव्य-दृश्य-मनोरञ्जन-शिखरसम्मेलनस्य उद्घाटनम् अकरोत्। अनेन सम्मेलनने सृजनात्मक-अर्थव्यवस्थायाः डिजिटल-कथावाचनस्य च क्षेत्रे भारतं वैश्विककेन्द्ररूपेण स्थापयितुं देशस्य आकाङ्क्षायै नूतना शक्तिः प्रदत्ता।
राज्यपालः हर्षं व्यक्तवान् यत् अस्मिन् वर्षे महोत्सवाय विश्वस्य ४६ देशेभ्यः १४५९ चलच्चित्राणां प्रविष्टयः प्राप्ताः। सः अवदत् यत् महोत्सवे भारतस्य ४२ अधिकभाषाणां तथा ३० अन्ताराष्ट्रियभाषाणां चलच्चित्राणि प्रदर्शितानि, यानि विश्वस्य विविधसंस्कृतीनां मानवानुभवानां च प्रतिनिधित्वं कुर्वन्ति। तेन उक्तं यत् एतानि चलच्चित्राणि समाजस्य यथार्थस्थितिं प्रकाशयन्ति, इतिहासं संरक्षन्ति, प्रचलितधारणाः स्पर्धां कुर्वन्ति तथा सामाजिकपरिवर्तनाय प्रेरणां ददति। वृत्तचित्राणि समाजस्य विविधवर्गेभ्यः स्वाभिव्यक्तेः मञ्चं प्रददति तथा भविष्यं प्रभावितुं समर्थेषु महत्त्वपूर्णेषु विषयेषु जनचेतनां जनयन्ति।
भारतस्य विश्वे बृहत्तमा युवा-जनसंख्या वर्तते इति उल्लेखं कुर्वन् राज्यपालः ग्रामीण-जनजातीय-प्रदेशेषु युवचलच्चित्र-निर्मातॄन् स्वदैनिकजीवनं, परम्पराः, संघर्षांश्च आधृत्य कथानां निर्माणाय प्रोत्साहितवान्। तेन महिला-चलच्चित्रनिर्मातृणाम् अधिकसहभागिता अपि अपेक्षिता इति उक्तं, यतः तासां विशिष्टदृष्टिकोणाः अनुभवा: च भारतीयकथावाचनपरम्परां समृद्धां कर्तुं समर्था: सन्ति। सः अवदत् यत् प्रौद्योगिक्याः प्रगतिः चलच्चित्रनिर्माणं अधिकं लोकतान्त्रिकं सुलभं च कृतवती अस्ति तथा नूतनाः सृजनात्मकाः सम्भावनाः उद्घाटितवती अस्ति। राज्यपालः मिफ्फ-महोत्सवस्य राज्यस्य विश्वविद्यालयानां माध्यम-मनोरञ्जनविभागानां च मध्ये अधिकसहकार्यस्य आवश्यकताम् अपि प्रतिपादितवान्। तेन उक्तं यत् एतादृशं सहकार्यं विद्यार्थिनः वैश्विकचलच्चित्रप्र-वृत्तिभिः परिचाययिष्यति तथा भविष्यस्य सृजनात्मकप्रतिभानां विकासे सहायकं भविष्यति।
अस्मिन् अवसरे राज्यपालः पोलैण्डदेशस्य ‘सिल्वर’ इति वृत्तचित्राय सर्वोत्तमवृत्तचित्रचलच्चित्रस्य गोल्डेन-कॉञ्च पुरस्कारम् अददात्। ईरानदेशस्य ‘अण्डर द स्नो’ इति चलच्चित्राय अन्तरराष्ट्रीयवर्गे सर्वोत्तमलघु-कथाचलच्चित्रस्य सिल्वर-कॉञ्च पुरस्कारः प्रदत्तः तथा जर्मनीदेशस्य ‘मायाज़ सॉन्ग’ इति चलच्चित्राय सर्वोत्तमचलच्चित्रित-चित्रस्य सिल्वर-कॉञ्च पुरस्कारः प्रदत्तः। विख्यातः चलच्चित्रनिर्देशकः आशुतोषगोवारीकरः अन्ताराष्ट्रियवर्गे सर्वोत्तमध्वन्यङ्कनस्य, सर्वोत्तमसम्पादनस्य तथा सर्वोत्तमछायाङ्कनस्य पुरस्कारान् वितरितवान्।
अस्मिन् समारोहे सूचनाप्रसारण-मन्त्रालयस्य अतिरिक्तसचिवः प्रभातकुमारः, अतिरिक्तसचिवः वित्तीय-परामर्शदाता च दीपकनारायणः, नेशनल-फिल्म-डेवलपमेण्ट-कॉर्पोरेशन-इत्यस्य प्रबन्धनिदेशकः प्रकाशमगदूमः, मराठी-भाषाविभागस्य सचिवः डॉ.किरणकुलकर्णी तथा राज्यपालस्य सहसचिवः एस.राममूर्तिः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan