Enter your Email Address to subscribe to our newsletters

शिमला, 22 जूनमासः (हि.स.)।
पूर्वमुख्यमन्त्री तथा पूर्वकेन्द्रीयमन्त्री शान्ताकुमारः उक्तवान् यत् भारतस्य सम्मुखे औषधनिर्माणोद्योगक्षेत्रे ऐतिहासिकः स्वर्णिमश्च अवसरः समुपस्थितः भविष्यति। तस्य सम्यगुपयोगेन देशे शतानि नवीनोद्योगानां स्थापना कर्तुं शक्यते तथा लक्षशः जनानां कृते रोजगारावसराः सृजितुं शक्यन्ते। सः केन्द्रसर्वकारम् अस्मिन् विषये दृढां योजनां निर्मातुम् आग्रहं कृतवान्।
शान्ताकुमारः सोमवासरे प्रकाशिते वक्तव्ये उक्तवान् यत् वर्षस्य २०२७ तमस्य अन्तभागपर्यन्तं विश्वे प्रायः द्विचत्वारिंशदधिकशतं अरबडॉलरमूल्यानां बहूनाम् औषधानां पेटेण्टाधिकाराः समाप्ताः भविष्यन्ति। कस्यापि औषधनिर्माणसंस्थायाः दीर्घकालीनस्य अनुसन्धानस्य विशालनिवेशस्य च अनन्तरं विकसितायाः औषधे विंशतिवर्षपर्यन्तं तस्याः संस्थायाः पेटेण्टाधिकारः भवति। अस्मिन् काले अन्याः संस्थाः तस्य औषधस्य निर्माणं कर्तुं न शक्नुवन्ति, तत् च ब्राण्डेडौषधम् इति कथ्यते। पेटेण्टावधेः समाप्तेः अनन्तरम् अन्याः संस्थाः अपि तदेव औषधं निर्मातुं शक्नुवन्ति, तत् च जेनेरिकौषधम् इति प्रसिद्धम् अस्ति।
तेन उक्तं यत् जेनेरिकौषधानां निर्माणे भारतः विश्वस्य अग्रणीदेशः अस्ति। एतस्मात् कारणात् भारतः विश्वस्य फार्मेसी इति नाम्ना अपि प्रसिद्धः अस्ति। जेनेरिकौषधानि ब्राण्डेडौषधेभ्यः पञ्चाशत् षष्टिशतांशपर्यन्तं न्यूनमूल्यानि भवन्ति, किन्तु तेषां गुणवत्तायां कश्चिदपि भेदः न भवति। अधुना भारतः प्रतिवर्षं विशालमात्रायां जेनेरिकौषधानां निर्यातं करोति तथा अमेरिकादेशः ब्रिटनदेशश्च इव विकसितदेशाः अपि भारतात् जेनेरिकौषधानि आयातयन्ति।
शान्ताकुमारः उक्तवान् यत् पेटेण्टाधिकारस्य समाप्तेः अनन्तरं येषाम् औषधानां निर्माणं सम्भविष्यति तेषां कृते भारते प्रायः पञ्चाशदारबडॉलरपरिमितः नवीनः जेनेरिकौषधबाजारः विकसितः भविष्यति इति अनुमानम् अस्ति। अनेन देशे पूर्वमेव स्थापितानां औषधोद्योगानां विस्तारः भविष्यति, नवीनोद्योगानां स्थापना भविष्यति तथा लक्षशः जनानां कृते जीवानामवसराः उत्पत्स्यन्ते।
तेन उक्तं यत् हिमाचलप्रदेशे अपि बह्व्यः औषधनिर्माणसंस्थाः कार्यरताः सन्ति, याः अस्य अवसरस्य पूर्णलाभं प्राप्तुं शक्नुवन्ति। सः केन्द्रसर्वकारम् आग्रहं कृतवान् यत् वरिष्ठाधिकारिणां उच्चस्तरीया समितिः गठिता भवेत् तथा अस्य सम्भावितस्य पञ्चाशदारबडॉलरपरिमितस्य बाजारस्य अधिकतमलाभः भारताय कथं प्राप्येत इति विषये व्यापकनीतिः निर्मीयताम्।
शान्ताकुमारः देशस्य जेनेरिकौषधनिर्माणसंस्थाभ्यः अपि आह्वानं कृतवान् यत् आगामिनः अस्य अवसरस्य कृते अद्यैव सर्वाः आवश्यकाः सिद्धताः प्रारभ्यन्ताम्। तेन केन्द्रीयस्वास्थ्यमन्त्री जगत्प्रकाशनड्डा महोदयाय पत्रमपि प्रेषितम्, यस्मिन् अस्मिन् विषये विशेषपहलस्य करणं तथा वैश्विकजेनेरिकौषधबाजारे भारतस्य अधिकसुदृढस्थितेः सुनिश्चितीकरणम् इति आग्रहः कृतः।
---------------
Hindusthan Samachar / Dheeraj Maithani