Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 22 जूनमासः (हि.स.)।नवयुवकल्याणसमित्या लक्सर तथा हरिद्वारजनपदीयक्रीडासङ्घस्य संयुक्ततत्त्वावधाने आयोजितायाः त्रिदिवसीयक्रीडाप्रतियोगितायाः द्वितीये दिवसे विश्वओलम्पिकदिवसस्य पूर्वसन्ध्यायां गोल्डन माइल रन इति धावनस्पर्धायाः आयोजनम् अभवत्। प्रतियोगितायाः आयोजनं भोगपुरस्थिते जस्सी स्पोर्ट्स अकादमी इत्यस्य क्रीडाङ्गणे सम्पन्नम्।
गोल्डन माइल रन इत्यस्य शुभारम्भः अकादम्याः अध्यक्षेन दीपककुमारेण भोगपुरस्य झण्डाचौकात् हरितध्वजप्रदर्शनेन कृतः। धावनस्पर्धायाः समापनम् अकादम्याः क्रीडाङ्गणे अभवत्, यत्र विजेतृक्रीडकाः सम्मानिताः।
वरिष्ठबालिकावर्गे रियारानी अलीपुरनिवासिनी प्रथमस्थानम्, अञ्जलि बीडीसी द्वितीयस्थानम् तथा कहकशा बसर बहादराबादनिवासिनी तृतीयस्थानम् अलभन्त। तथा च वरिष्ठबालकवर्गे सागरपालः बुग्गावाला भगवानपुरनिवासी प्रथमस्थानम्, रहमानः बहादराबादनिवासी द्वितीयस्थानम् तथा वंशकुमारः रायगढनिवासी तृतीयस्थानम् प्राप्तवान्।
विजेतृक्रीडकाः नवयुवकल्याणसमित्याः सत्यपालकुमारेण, सीमाराण्या तथा दीपककुमारेण संयुक्तरूपेण पदकैः, स्मृतिचिह्नैः तथा प्रमाणपत्रैः सम्मानिताः।
आयोजकैः सूचितं यत् २३ जूनदिनाङ्के विश्वओलम्पिकदिवसस्य उपलक्ष्ये मायापुरस्थिते डा हरिरामआर्य इण्टरकालेजस्य क्रीडाङ्गणे बालिकानां कबड्डीप्रतियोगिता आयोजिता भविष्यति, यस्यां केवलं हरिद्वारजनपदस्य बालिकाः सहभागं करिष्यन्ति।
प्रतियोगितायाः समापनावसरे नवनियुक्तस्य राज्यमन्त्रिणः नितिनगौतमस्य तथा गोरखासमाजस्य राज्यसदस्यस्य पदमप्रसादसुवेदी इत्यस्य सम्मानः नागरिकाभिनन्दनं च भविष्यति।
समित्याः अध्यक्षः प्रमोदकुमारः, अकादम्याः अध्यक्षः अरविन्दअग्रवालः, क्रीडासङ्घस्य अध्यक्षः सुनीलअग्रवालः, आदेशसैनी, डा धूमसिंहः, हिमांशुचोपडा, पदमापाण्डे तथा वरिष्ठकबड्डीक्रीडकः पुष्पराजः सहिताः अनेके जनाः विजेतृक्रीडकान् शुभकामनाः प्रदत्तवन्तः।
Hindusthan Samachar / Dheeraj Maithani