Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 22 जूनमासः (हि.स.)।
जनपदे दृढ-अपशिष्टप्रबन्धननियमानां प्रभाविकार्यान्वयनस्य विषये मुख्यविकासाधिकाऱिणा नगरनिगमस्य, नगरपालिकानां, नगरपञ्चायतानां, जिलापञ्चायतस्य तथा खण्डविकासाधिकारिणां प्रति स्वच्छतायाः कचराप्रबन्धनव्यवस्थायाश्च गम्भीरतया कार्यान्वयनाय निर्देशाः प्रदत्ताः।
मुख्यविकासाधिकाऱिणा उक्तं यत् ठोसअपशिष्टप्रबन्धनसम्बद्धकार्याणां नियमितनिगरानी क्रियते तथा सर्वैः विभागैः प्रतिदिनस्य प्रगतिप्रतिवेदनं स्वच्छतानियन्त्रणकक्षाय तथा जिलाकार्यालयाय उपस्थापनीयम्।
हरिद्वारनगरनिगमस्य रुडकीनगरनिगमस्य च सहितं सर्वेभ्यः नगरनिकायेभ्यः गृहे गृहे कचरासङ्ग्रहणव्यवस्थां सुनिश्चितुं, आर्द्रशुष्ककचरयोः पृथक् सङ्ग्रहणं कर्तुं तथा संवृतकचरापरिवहनव्यवस्थां प्रवर्तयितुं निर्देशाः प्रदत्ताः।
जिलापञ्चायताय, जिलापञ्चायतराजाधिकाऱिणे तथा सर्वेभ्यः खण्डविकासाधिकारिभ्यः ग्रामपञ्चायतस्तरे ठोसअपशिष्टप्रबन्धनयोजनाः निर्मातुं, स्रोतस्तरे कचरापृथक्करणं प्रवर्तयितुं तथा उन्मुक्तस्थले कचरानिक्षेपणं कचरादाहनं च पूर्णतया निषिद्धं कर्तुं निर्देशाः प्रदत्ताः।
मुख्यशिक्षाधिकाऱिणे विद्यालयेषु स्वच्छतायाः पर्यावरणसंरक्षणस्य च सम्बन्धिनः जागरूकताकार्यक्रमाः, प्रतियोगिताः तथा प्लास्टिकमुक्तअभियानानि सञ्चालयितुं निर्देशाः प्रदत्ताः।
वनविभागाय तथा उत्तराखण्डप्रदूषणनियन्त्रणमण्डलाय वनक्षेत्रेषु, नदीतटेषु, राजाजीटाइगररिजर्वस्य सीमासु तथा अन्येषु पर्यावरणदृष्ट्या संवेदनशीलेषु क्षेत्रेषु अवैधकचरासञ्चयनं निवारयितुं निर्देशाः प्रदत्ताः।
उपवेशने अपरजिलाधिकारी प्रशासन जितेन्द्रकुमारः, अपरजिलाधिकारी वित्तराजस्व वैभवगुप्तः, मुख्यशिक्षाधिकारी नरेशकुमारहल्दियानी तथा विविधविभागानां जिलास्तरीयाधिकारिणः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani