अखिलभारतीयविद्यार्थीपरिषद: विद्यालय-निरोधन-आह्वानेन तेलङ्गाना-राज्यस्य अनेकेषु विद्यालयेषु शिक्षणकार्यम् प्रभावितम्
हैदराबादनगरम्, 23 जून (हि.स.)। अखिलभारतीयविद्यार्थीपरिषदः इत्यस्याः शिक्षासम्बद्धविषयाणां समर्थनार्थं राज्यव्यापि विद्यालयबन्दस्य आह्वानानन्तरं मंगलवासरे तेलङ्गाना-राज्यस्य अनेकप्रदेशेषु विद्यालयेषु कार्यसञ्चालनं बाधितम् अभवत्। प्रदर्शनानां सम्भाव
एबीवीपी का स्कूल बंद आज


हैदराबादनगरम्, 23 जून (हि.स.)। अखिलभारतीयविद्यार्थीपरिषदः इत्यस्याः शिक्षासम्बद्धविषयाणां समर्थनार्थं राज्यव्यापि विद्यालयबन्दस्य आह्वानानन्तरं मंगलवासरे तेलङ्गाना-राज्यस्य अनेकप्रदेशेषु विद्यालयेषु कार्यसञ्चालनं बाधितम् अभवत्। प्रदर्शनानां सम्भावनां दृष्ट्वा अनेके निजी तथा कॉर्पोरेट विद्यालया: विशेषतः हैदराबादनगरे पूर्वमेव अवकाशस्य घोषणां कृतवन्ति।

एबीवीपी संस्थया छात्रेभ्यः, अभिभावकेभ्यः तथा विद्यालयप्रबन्धनाय च अस्य बन्दस्य समर्थनं कर्तुम् अपीलं कृतम्। संस्थायाः कथनम् अस्ति यत् निजी तथा शासकीयविद्यालयानाम् उभयेषाम् उपरि प्रभावं कुर्वन्तः दीर्घकालात् प्रलम्बिताः विषयाः राज्यसर्वकारस्य त्वरितहस्तक्षेपम् अपेक्षन्ते। एबीवीपी नेतारः आरोपितवन्तः यत् पुनः पुनः निवेदनपत्राणि समर्पितानि सन्ति तथापि शिक्षासम्बद्धाः चिन्ताविषयाः अद्यापि अनिराकृताः सन्ति। तैः त्वरित-नीतिगतकार्यवाही अपि अपेक्षिता।

प्रदर्शनस्य केन्द्रे शुल्कनियमनस्य याचना

अस्य विरोधप्रदर्शनस्य मुख्यविषयः निजी तथा कॉर्पोरेट विद्यालयैः ग्राह्यमाणानां शुल्कानां कठोरनियमनस्य याचना अस्ति। एबीवीपी इत्यस्य आरोपः अस्ति यत् अनेकाः संस्थाः पर्याप्तपर्यवेक्षणं विना शुल्कवृद्धिं कुर्वन्ति, येन परिवाराणाम् उपरि आर्थिकभारः वर्धते।

एबीवीपी इत्यस्य याचना अस्ति यत् निजीविद्यालयानां शुल्कनियन्त्रणाय तथा मनमानीशुल्कवृद्धेः निरोधनाय विधिः निर्मीयताम्। निजीविद्यालयेषु आर्थिक-दृष्ट्या दुर्बलवर्गीयविद्यार्थिनां कृते पञ्चविंशतिप्रतिशतं आरक्षणं सम्यग्रूपेण कार्यान्वितं क्रियताम्। सर्वकारेण प्रदत्तानां विद्यालयवेशभूषाणां त्वरितवितरणं भवेत्, याः अद्यापि अनेकविद्यार्थिभ्यः न प्राप्ताः। अध्यापनसम्बद्धानाम् अनध्यापन-सम्बद्धानां च रिक्तपदानां पूर्तिः क्रियताम्। मण्डलशिक्षाधिकारिणां तथा जनपद-शिक्षाधिकारिणां नियुक्तिः अपि क्रियताम्।

आवासीयगुरुकुलविद्यालयानां कृते स्थायिभवनानां निर्माणं, मध्याह्नभोजन-व्यवस्थायाः उत्तमपर्यवेक्षणं तथा शैक्षणिकसंस्थासु उत्तममूल-संरचनायाः विकासः क्रियताम्।

पारदर्शितायाः तथा विशेषप्राधिकरणस्य याचना

संस्थया प्रवेशप्रक्रियासु तथा शैक्षणिककार्यप्रणालीषु अधिक-पारदर्शितायाः अपि याचना कृता। राज्य-व्यापिरूपेण शुल्कपुनरीक्षणाय विद्यालय-निरीक्षणाय च समर्पितस्य विशेष-प्राधिकरणस्य स्थापनायाः अपि याचना ता।

संस्थया राज्यसर्वकारस्य उपरि आरोपः कृतः यत् सार्वजनिकशिक्षायाः सुदृढी-करणस्य अपेक्षया निजी तथा कॉर्पोरेट संस्थासु अधिकं ध्यानं केन्द्रितं क्रियते। तैः राष्ट्रीयशिक्षानीतिः २०२० अन्तर्गतविद्यालय-शिक्षासम्बद्ध-प्रावधानानां कार्यान्वयनस्य अपि याचना ता।

एबीवीपी प्रदेशसचिवः मचर्ला रामबाबू मुख्यमन्त्रिणः ए.रेवन्त: रेड्डी नेतृत्वयुक्तां सर्वकारं प्रति आरोपं कृत्वा उक्तवान् यत् शासकीयविद्यालयाः पर्याप्तं ध्यानं न प्राप्नुवन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani