Enter your Email Address to subscribe to our newsletters

अनन्तनागः, २३ जूनमास: (हि.स.)। जम्मू-कश्मीर-आरक्षकस्य महानिदेशकः नलिनप्रभातः सोमवासरे पहलगामस्थं नुनवान-आधारशिविरम् उपगत्य अमरनाथयात्रायाः पूर्वं सुरक्षाप्रबन्धानां व्यवस्थापनस्य च निरीक्षणम् अकरोत्। अस्मिन् निरीक्षणे तेन सह समन्वय-विभागस्य विशेष-महानिदेशकः तथा कश्मीर-क्षेत्रस्य आरक्षक-महानिरीक्षकः अपि उपस्थितौ आस्ताम्।
वरिष्ठैः आरक्षक-अधिकारिभिः तथा सुरक्षा-अधिकारिभिः वार्षिक-यात्रायाः सुरक्षित-सुचारु-सञ्चालनार्थं निर्मितायाः बहुस्तरीय-सुरक्षाव्यवस्थायाः विषये विस्तरेण प्रस्तुतीकरणं कृतम्। दक्षिण-कश्मीर-परिक्षेत्रस्य उप-महानिरीक्षकः तथा अनन्तनागस्य वरिष्ठ-आरक्षक-अधीक्षकः महानिदेशकाय सम्पूर्ण-सुरक्षाव्यवस्थां, सुरक्षाबलानां नियुक्ति-रणनीतिं, निरीक्षणोपायान्, प्रवेश-नियन्त्रण-प्रणालीम्, आपत्कालीन-प्रतिक्रिया-योजनां तथा विभिन्न-सुरक्षा-अभिकरणानां परस्पर-समन्वयं विस्तरेण अवेदयताम्। अधिकारिभिः आधारशिविरे यात्रामार्गे च कृतानां व्यवस्थापनानां विषये अपि निवेदितम्, यत्र चतुर्विंशतिहोरात्मक-निरीक्षणं, क्षेत्र-प्रभुत्व-अभ्यासः, विध्वंस-निवारण-परीक्षणानि तथा सुरक्षा-समस्याया: सम्यक् प्रतिकारार्थं कठोर-सतर्कता च अन्तर्भूताः आसन्।
सुरक्षाप्रस्तुतयः समीक्ष्य महानिदेशकः नलिनप्रभातः यात्रिणां कृते सुरक्षितं वातावरणं सुनिश्चितं कर्तुं सर्वेषां सुरक्षा-अभिकरणानां मध्ये उच्चस्तरीया सतर्कता सुदृढः समन्वयश्च अनिवार्यः इति प्रतिपादितवान्। तेन अधिकारिणः सर्वदा सजगाः भवितुं तथा सर्वान् सुरक्षा-नियमावलीन् प्रभावीरीत्या कार्यान्वितुं निर्देशः अपि दत्तः।
अयं निरीक्षण-प्रवासः वार्षिक-अमरनाथयात्रायाः पूर्वं जम्मू-कश्मीर-आरक्षकेण अन्यैः सुरक्षा-अभिकरणैश्च सुरक्षाव्यवस्थां अधिकं सुदृढां कर्तुं क्रियमाणानां प्रयासानां भागः अस्ति। एषा यात्रा अग्रिम-मासे प्रारभ्यते। अधिकारिभिः पुनरपि प्रतिज्ञातं यत् पवित्रम् अमरनाथ-गुहामन्दिरम् आगच्छद्भ्यः भक्तेभ्यः सुरक्षितं, शान्तिपूर्णं, निर्विघ्नं च तीर्थयात्रानुभवं प्रदास्यते।
Hindusthan Samachar / Divya Ranjan