डाॅ. श्यामाप्रसादमुखर्जी-महोदयस्य पुण्यतिथिः बलिदानदिवसरूपेण आचरिता
अररियानगरम्, २३ जूनमास: (हि.स.)। फारबिसगञ्जस्थिते रेणु-सार्वजनिक-पुस्तकालय-परिसरे मङ्गलवासरे भारतीयजनतापक्षस्य नगरसमित्याः आयोजनायां नगराध्यक्षस्य वीरेन्द्रप्रसाद-मिण्टू इत्यस्य अध्यक्षतायां डाॅ.श्यामा-प्रसादमुखर्जी-महोदयस्य चतुःसप्ततितमी पुण्यतिथि
अररिया फोटो:बलिदान दिवस पर भाजपा कार्यकर्ता


अररियानगरम्, २३ जूनमास: (हि.स.)। फारबिसगञ्जस्थिते रेणु-सार्वजनिक-पुस्तकालय-परिसरे मङ्गलवासरे भारतीयजनतापक्षस्य नगरसमित्याः आयोजनायां नगराध्यक्षस्य वीरेन्द्रप्रसाद-मिण्टू इत्यस्य अध्यक्षतायां डाॅ.श्यामा-प्रसादमुखर्जी-महोदयस्य चतुःसप्ततितमी पुण्यतिथिः बलिदान-दिवसरूपेण आचरिता।

अस्मिन्नवसरे भाजपानेता प्रवीणकुमारः अवदत् यत् डाॅ. श्यामाप्रसादमुखर्जी “एकं राष्ट्रम्, एकः ध्वजः, एकं विधानम्” इति सिद्धान्तस्य प्रणेता आसीत्। तस्य जीवनं विद्या, वित्तं, विकासश्च इति चिन्तनधाराणां समन्वयरूपम् आसीत्। तस्य बलिदानेन संघर्षेण च कश्मीरः भारतस्य अभिन्नाङ्गत्वेन सुरक्षितः अभवत्।

भाजपानेता प्रवीणकुमारः तथा नगराध्यक्षः वीरेन्द्रप्रसाद-मिण्टू अवदताम् यत् राष्ट्राय सर्वस्वं समर्पितवन्तः राष्ट्रस्य अस्मितायाः प्रतीकः डाॅ.मुखर्जी राष्ट्रपुनर्निर्माणे स्वदेशीनीतेः न केवलं प्रबलसमर्थकः आसीत्, अपितु तस्य विचारधारायै समर्पितं जीवनं चिरकालपर्यन्तं प्रासङ्गिकमेव भविष्यति।

नगराध्यक्षस्य अध्यक्षतायां आयोजिते अस्मिन् कार्यक्रमे भाजपाजनपद-उपाध्यक्षः प्रतापनारायणमण्डलः, विधान-सभाप्रभारी रञ्जीतमिश्रः, वरिष्ठकार्यकर्ता शम्भूसाहः, प्रदीपकन्नौजिया, उपमुख्य-पार्षदा नूतनभारती, महिलामोर्चा-जनपदाध्यक्षा चान्दनीसिंह, जनपद-कोषाध्यक्षः सुधीरसिंहः, पार्षदाः उमाशङ्करयादवः, सञ्जयरजकः, आदर्श-गोयलः, विपिनजयसवालः, राजेशसाहः, रामनाथसाहः, प्रदीपसाहः, पप्पूरायः इत्यादयः कार्यकर्तारः उपस्थिताः आसन्। सर्वैः डाॅ.श्यामाप्रसादमुखर्जी-महोदयस्य चित्रे पुष्पाञ्जलिः समर्प्य श्रद्धाञ्जलिरपि अर्पिता।

Hindusthan Samachar / Divya Ranjan