Enter your Email Address to subscribe to our newsletters

रायपुरम्, 23 जूनमासः (हि.स.)।
डॉ. श्यामाप्रसाद मुखर्जेः संस्थापकस्य प्रखरराष्ट्रभक्तस्य च बलिदानदिवसात् अद्य २३ जून दिनाङ्कात् तस्य जयंतीपर्यन्तं ६ जुलाई दिनाङ्कपर्यन्तं भारतीय जनता पार्टी समग्रप्रदेशे स्मरणपक्षस्य आयोजनं करिष्यति।
अस्य परिप्रेक्ष्ये भाजपा प्रदेश उपाध्यक्षः तथा डॉ श्यामाप्रसाद मुखर्जी जयंती संस्मरणपक्ष कार्यक्रमस्य प्रदेशप्रभारी नन्दन जैन अवदत् यत् अयं पक्षः डॉ मुखर्जीस्य महान् संकल्पः राष्ट्रचेतना च जनजनपर्यन्तं प्रसारयितुं माध्यमं भविष्यति।
स्मरणपक्षस्य अन्तर्गतं भाजपा कार्यकर्तृभिः बूथस्तरात् आरभ्य प्रदेशस्तरपर्यन्तं विविधरचनात्मकसेवाकार्यक्रमाणाम् आयोजनं क्रियते। एतत् वर्षं डॉ श्यामाप्रसाद मुखर्जीस्य पञ्चविंशत्यधिकशततमं जयंतीवर्षरूपेण आचर्यते।
भाजपा प्रदेश उपाध्यक्षः जैन अवदत् यत् भारतीय जनसंघस्य संस्थापकः प्रथमः राष्ट्रीयाध्यक्षः च डॉ श्यामाप्रसाद मुखर्जी राष्ट्रनिर्माणे सांस्कृतिकराष्ट्रवादस्य चेतनाजागरणे भारतस्य अखण्डतायाः प्रतीकरूपेण च प्रसिद्धः आसीत्। सः प्रख्यातः शिक्षाविद् कुशलः प्रशासकः दूरदर्शी राजनेता प्रखरराष्ट्रभक्तः च आसीत्। डॉ मुखर्जी जम्मू कश्मीरं भारतस्य अभिन्नाङ्गरूपेण स्थापयितुं भारतस्य अखण्डतायाः लोकतान्त्रिकमूल्यानां च संरक्षणं सुनिश्चितीकर्तुं स्वजीवनस्य बलिदानम् अकरोत्। नरेन्द्र मोदी इत्यस्य नेतृत्वे जम्मू कश्मीरात् धारा ३७० निराकृत्य डॉ मुखर्जीस्य स्वप्नस्य साकारीकरणार्थं ऐतिहासिकं कार्यं कृतम्।
अस्मिन् पक्षे भविष्यतां कार्यक्रमाणां विस्तृतसूचनां प्रददन् श्री जैनः अवदत् यत् अस्य कालस्य अन्तर्गतं सर्वेषु बूथेषु बूथसमित्याः सदस्यैः प्राथमिकसदस्यैः शुभचिन्तकैः च सह अद्य मङ्गलवासरे २३ जून दिनाङ्के तथा ६ जुलाई दिनाङ्के पुष्पाञ्जलिकार्यक्रमस्य आयोजनं भविष्यति तथा डॉ मुखर्जीस्य जीवनस्य व्यक्तित्वस्य राष्ट्रसेवायां तस्य योगदानस्य च विषये चर्चा क्रियते।
Hindusthan Samachar / Dheeraj Maithani