होर्मुज-जलडमरूमध्यस्य उद्घाटनम् ऊर्जासुरक्षां सुदृढां करिष्यति - अजीत-डोभालः
नवदेहली, २३ जूनमास: (हि.स.)। राष्ट्रियसुरक्षापरामर्शदाता अजीत-डोभालः मङ्गलवासरे ब्रिक्स-राष्ट्राणां षोडशी राष्ट्रियसुरक्षापरामर्शदाता-सभायां उक्तवान् यत् अमेरिका-ईरानयोः मध्ये जातस्य सामञ्जस्यस्य भारतं स्वागतं करोति। तेन उक्तं यत् होर्मुज-जलडमरूमध्
ब्रिक्स एनएसए बैठक का दृष्य


नवदेहली, २३ जूनमास: (हि.स.)। राष्ट्रियसुरक्षापरामर्शदाता अजीत-डोभालः मङ्गलवासरे ब्रिक्स-राष्ट्राणां षोडशी राष्ट्रियसुरक्षापरामर्शदाता-सभायां उक्तवान् यत् अमेरिका-ईरानयोः मध्ये जातस्य सामञ्जस्यस्य भारतं स्वागतं करोति। तेन उक्तं यत् होर्मुज-जलडमरूमध्यस्य उद्घाटनम् ऊर्जासुरक्षां सुदृढां करिष्यति, आपूर्तिशृङ्खलायाः व्यवधानानि न्यूनीकरिष्यति तथा उर्वरकाणां, रसायनानां, अन्येषां च आवश्यकवस्तूनां उपलब्धिं वर्धयिष्यति। एतेन प्रादेशिक-वैश्विक-आर्थिकसमृद्धेः अपि प्रोत्साहनं भविष्यति।

डोभालः वैश्विकसमस्याया: मध्ये ब्रिक्स-समूहस्य महत्त्वपूर्णां भूमिकाम् अपि प्रकाशयन् अवदत् यत् सम्प्रति विश्वं सैन्यसंघर्षैः, भूराजनैतिक-अनिश्चितताभिः, आर्थिकप्रभावैः, विघटनकारी-प्रौद्योगिकीभिश्च उत्पन्नाभिः जटिलाभिः समस्याभिः सम्मुखीकृतम् अस्ति। संघर्ष-समाधानस्य परम्परागत-व्यवस्थाः दुर्बलाः भवन्ति, अतः एतादृशे काले ब्रिक्स-समूहस्य भूमिका अधिकमहत्त्वपूर्णा जाता अस्ति।

तेन उक्तं यत् बहुपक्षवादः शनैः शनैः दुर्बलः भवति। ब्रिक्स-समूहस्य स्थापना उदितानाम् अर्थव्यवस्थानां अनौपचारिक-मञ्चरूपेण अभवत्, यस्य उद्देश्यम् अधिकां बहुध्रुवीयां विश्वव्यवस्थां प्रवर्तयितुम् आसीत्। तेन उक्तम्— “अस्मिन् तीव्रपरिवर्तनयुक्ते अशान्तिकाले, यदा विवादसमाधानस्य पारम्परिकोपायाः निष्प्रभावाः दृश्यन्ते, तदा समूहत्वेन अस्माकं विशिष्टा भूमिका वर्तते। अस्माभिः सामूहिकरूपेण किम् योगदानं दातुं शक्यते इति चिन्तनीयम्।”

डोभालः अवदत् यत् साइबर-आक्रमणानि, नवप्रकारस्य आतंकवादः, विघटनकारी-प्रौद्योगिक्यः इत्यादयः अपरम्परागत-सुरक्षासमस्या: राष्ट्रियसीमानः अतिक्रम्य प्रसृताः सन्ति। तासां निवारणाय सामूहिकप्रयत्नाः तथा नूतनदृष्टिकोणः अत्यावश्यकः इति तेन प्रतिपादितम्।

तेन पुनरुक्तं यत् ब्रिक्स-समूहस्य स्थापना बहुध्रुवीयविश्वव्यवस्थायाः, आर्थिकसह-कार्यस्य तथा वैश्विकदक्षिण-देशानां स्वरस्य सुदृढी-करणस्य उद्देश्येन कृता आसीत्। अयं समूहः शान्तेः, प्रगतेः, विकासस्य, सहकार्यस्य च समर्थकानां राष्ट्राणां अद्वितीयः समुदायः अस्ति, यः निरन्तरं सुदृढः भवति।

डोभालः अवदत् यत् ब्रिक्स-राष्ट्रेषु समष्टिरूपेण ४.१ अर्बुदाधिकाः जनाः निवसन्ति, ये विश्वस्य प्रायः ४९ प्रतिशतं जनसंख्यां प्रतिनिधित्वं कुर्वन्ति। अयं समूहः वैश्विकार्थव्यवस्थायां प्रायः ३१.५ ट्रिलियन-डॉलर-परिमितं योगदानं ददाति।

अस्यां सभायाम् आतंकवाद-निरोधसहकार्यस्य तथा सूचना-सञ्चार-प्रौद्योगिक्याः सुरक्षितोपयोगसम्बद्धानां ब्रिक्स-संयुक्तकार्यसमूहानां प्रगतिः, तेषां शंसाः च अपि चर्चायां भविष्यन्ति।

एतस्मात् पूर्वम् अजीत-डोभालः षोडशीं ब्रिक्स-राष्ट्रियसुरक्षापरामर्शदाता-सभां सम्बोध्य ब्रिक्स-सहभागिता-राष्ट्राणां प्रतिनिधीन् स्वागतं कृतवान्। सभायां रूसदेशस्य सर्गेई-शोइगु:, संयुक्त-अरब-अमीरातस्य अली-मोहम्मद-हम्माद-अल-शम्सी, मिस्रदेशस्य अला-यूसुफ:, इण्डोनेशियादेशस्य यायात-रुयात:, ईरानदेशस्य ग़दीर-नेज़ामीपुर:, इथियोपिया-देशस्य मिलियन-लेमा-ताडेसे, ब्राजीलदेशस्य कार्लोस-मार्सियो-बिकाल्हो-कोज़ेंडे, दक्षिण-अफ्रीकादेशस्य खुम्बुद्ज़ो-नत्शावेनी तथा चीनदेशस्य वाङ् यी इत्यादयः गणमान्याः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan