बजाज कैपिटलद्वारा जय बजाजः प्रबंध निदेशकः एवं मुख्य कार्यकारी अधिकारी नियुक्तः कृतः
नव दिल्ली, 23 जूनमासः (हि.स)। वित्तीयसेवासंस्थया बजाजकैपिटल इत्यनया मङ्गलवासरे जयबजाजस्य प्रबन्धनिदेशकपदे मुख्यकार्यपालकाधिकारिपदे च नियुक्तेः घोषणा कृता। संस्थया उक्तं यत् षष्टिवर्षाधिककालात् विश्वसनीयपरम्परां अग्रे नयन्ती बजाजकैपिटल संस्था प्र
बजाज कैपिटल ने जय बजाज को प्रबंध निदेशक एवं सीईओ किया नियुक्त


नव दिल्ली, 23 जूनमासः (हि.स)।

वित्तीयसेवासंस्थया बजाजकैपिटल इत्यनया मङ्गलवासरे जयबजाजस्य प्रबन्धनिदेशकपदे मुख्यकार्यपालकाधिकारिपदे च नियुक्तेः घोषणा कृता।

संस्थया उक्तं यत् षष्टिवर्षाधिककालात् विश्वसनीयपरम्परां अग्रे नयन्ती बजाजकैपिटल संस्था प्रौद्योगिकीसमर्थितस्य अन्तर्दृष्ट्याधारितस्य च वित्तीयपरामर्शसंगठनस्य रूपेण आत्मानं परिवर्तयितुं दिशि तीव्रगत्या अग्रे गच्छति। संस्थया उक्तं यत् भविष्ये बजाजकैपिटल संस्था वित्तीयसज्जता व्यक्तिगतसेवानिवृत्तियोजना तथा च ग्राहकेभ्यः श्रेष्ठानुभवप्रदानम् इत्येतेषु केन्द्रिताः नूतनाः डिजिटलपहलाः प्रारप्स्यति।

अनेन परिवर्तनस्य सह बजाजकैपिटल संस्थायाः लक्ष्यं स्वस्य अग्रणीपरम्परायाः सुदृढीकरणं ग्राहकैः सह दीर्घकालिकसम्बन्धानां च अधिकसुदृढीकरणम् अस्ति। तथा च तेषां जीवनस्य प्रत्येकस्मिन् महत्त्वपूर्णे चरणे विश्वसनीयवित्तीयसहभागिरूपेण प्रतिष्ठां प्राप्तुम् अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani