Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २३ जूनमास: (हि.स.)। चीनदेशस्य विदेशमन्त्री वाङ्ग यी राष्ट्रियसुरक्षा-परामर्शदात्रा अजीत-डोभालेन सह मिलनान्तरम् अवदत् यत् चीनदेशः भारतं च द्विपक्षीयसम्बन्धान् दीर्घकालिकदृष्ट्या पश्येयाताम्, वैश्विकपरिप्रेक्ष्ये च परस्परसहकार्यं वर्धयेयाताम्। उभाभ्यां देशाभ्यां स्वनेतृभ्यां मध्ये जाता सहमति: दृढपदैः कार्यरूपेण परिणमनीया, येन सहकारस्य माध्यमेन विकासः पुनरुत्थानं च त्वरितं भवेत् तथा ग्लोबल् साउथ इत्यस्य आधुनिकी-करणप्रक्रिया अपि शीघ्रतया प्रवर्तेत।
चीनदेशस्य राजदूतः शू फेइहोंगः सामाजिकमाध्यममञ्चे ‘एक्स’ इत्यत्र सूचितवान् यत् अस्मिन् सम्मेलने वाङ्ग यी इदमपि अवदत् यत् उभौ पक्षौ परस्परस्य मूलहितानां सम्मानं कुर्याताम्, संवेदनशीलविषयान् च समुचितरीत्या समाधत्ताम्। तेन विशेषतया प्रतिपादितं यत् सीमाविवादः द्विपक्षीयसम्बन्धानां समग्रस्थितेः प्रतिकूलप्रभावकारणं न भवेत्।
वाङ्ग यी पुनरपि अवदत् यत् उभाभ्यां राष्ट्राभ्यां समाजस्य सर्वेषां वर्गाणां मध्ये सम्यग्बोधनिर्माणार्थं सक्रियप्रयत्नाः करणीयाः। जनमतस्य सामाजिकाधारस्य च सुदृढीकरणेन द्विपक्षीयसम्बन्धानां सुधारः सम्भविष्यति। सः ब्रिक्स् सङ्घस्य अध्यक्षतां वहन्त्या भारतस्य समर्थनं व्यक्तवान् तथा उक्तवान् यत् चीनदेशः भारतेन सह मिलित्वा ब्रिक्स्-व्यवस्थायाः विकासं विस्तारं च अग्रे नेतुं सज्जः अस्ति।
Hindusthan Samachar / Divya Ranjan