कार्बी आंगलोंग स्वायत्त परिषदः 75तमे स्थापना दिवसे मुख्यमंत्री अददात् शुभकामनाम्
गुवाहाटी, 23 जूनमासः (हि.स.)। असमस्य मुख्यमंत्री हिमंत बिस्व सरमा कार्बी आङ्गलोंग स्वायत्तपरिषदः केएएसी इत्यस्य पञ्चसप्ततितमस्थापनादिवसे प्रदेशवासिभ्यः विशेषतः कार्बी आङ्गलोंगक्षेत्रस्य जनभ्यः हार्दिकाः शुभकामनाः अभिनन्दनानि च प्रदत्तवान्। मङ्गलवा
Image Shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 23 जूनमासः (हि.स.)। असमस्य मुख्यमंत्री हिमंत बिस्व सरमा कार्बी आङ्गलोंग स्वायत्तपरिषदः केएएसी इत्यस्य पञ्चसप्ततितमस्थापनादिवसे प्रदेशवासिभ्यः विशेषतः कार्बी आङ्गलोंगक्षेत्रस्य जनभ्यः हार्दिकाः शुभकामनाः अभिनन्दनानि च प्रदत्तवान्।

मङ्गलवासरे सामाजिकमाध्यमेषु प्रसारिते स्वसन्देशे मुख्यमन्त्री उक्तवान् यत् परिषदः पञ्चसप्ततिवर्षात्मकः गौरवपूर्णः प्रवासः न्यायसमताजनसेवायाः आदर्शेषु आधारितः आसीत्। तेन आशा व्यक्तीकृता यत् विकासस्य जनकल्याणस्य च एषा यात्रा आगामिषु कालेषु अधिकं सशक्ता भविष्यति।

मुख्यमन्त्री उक्तवान् यत् कार्बी आङ्गलोंगस्य समृद्धा संस्कृति परम्पराः जनजातीयगौरवं च सर्वदा असमराज्यं अधिकं समृद्धं कृतवन्ति। तेन एषा उपलब्धिः क्षेत्रस्य जनानां विरासतस्य दृढतायाः आकाङ्क्षाणां च प्रतीकरूपेण वर्णिता।

डॉ सरमा परिषदः निरन्तरप्रगतेः तथा क्षेत्रस्य जनानां सुखसमृद्धेः कामनां कुर्वन् उक्तवान् यत् परिषद् भविष्ये अपि शान्तेः विकासस्य सर्वसमावेशकसशक्तीकरणस्य च प्रवर्धने महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।

Hindusthan Samachar / Dheeraj Maithani