Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 23 जूनमासः (हि.स.)।
असमस्य मुख्यमंत्री हिमंत बिस्व सरमा मङ्गलवासरे महान् राष्ट्रवादी नेता प्रखरः शिक्षाविद् जनसंघस्य संस्थापकः च डॉ. श्यामा प्रसाद मुखर्जी इत्यस्य बलिदानदिवसे तस्मै विनम्रां श्रद्धाञ्जलिम् अर्पितवान्।
मुख्यमन्त्री सामाजिकमाध्यमेषु प्रसारिते स्वसन्देशे उक्तवान् यत् डॉ मुखर्जी राष्ट्रस्य एकतायाः अखण्डतायाः राष्ट्रियस्वाभिमानस्य च रक्षणार्थं स्वसम्पूर्णं जीवनं समर्पितवान् आसीत्। तेन उक्तं यत् राष्ट्रं सर्वोपरि इति आदर्शं पुरस्कृत्य डॉ मुखर्जी यम् अपराजेयसंघर्षं त्यागम् अखण्डराष्ट्रनिष्ठां च प्रदर्शितवान् सः भाविसंततिं सर्वदा प्रेरयिष्यति।
डॉ सरमा उक्तवान् यत् भारतमातुः सेवायै समर्पितस्य डॉ श्यामा प्रसाद मुखर्जेः जीवनं देशवासिनां कृते सदा प्रेरणायाः उज्ज्वलं स्रोतः भविष्यति। तेन तस्य बलिदानदिवसे गाढां श्रद्धाञ्जलिम् अर्पयित्वा तस्य योगदानं स्मृतवान्।
---------
Hindusthan Samachar / Dheeraj Maithani