अन्ताराष्ट्रिय-ओलम्पिक-दिवसस्य अवसरे मुख्यमन्त्री ओलम्पिक-मैराथन-धावनस्पर्धायै हरितध्वजं प्रदर्शितवान्
शिमलानगरम्, 23 जूनमास: (हि.स.)। मुख्यमन्त्री ठाकुर सुखविन्द्र सिंह सुक्खू मंगलवासरे अन्तरराष्ट्रीय ओलम्पिकदिवसस्य अवसरे स्वस्य आधिकारिकनिवासात् ओक ओवर इत्यस्मात् ओलम्पिक मैराथनधावनस्पर्धां हरितध्वजं प्रदर्श्य प्रेषितवान्। एषा धावनस्पर्धा सीटीओमा
अंतरराष्ट्रीय ओलंपिक दिवस पर मुख्यमंत्री  ओलंपिक मैराथन को हरी झंडी दिखाते हुए।


शिमलानगरम्, 23 जूनमास: (हि.स.)।

मुख्यमन्त्री ठाकुर सुखविन्द्र सिंह सुक्खू मंगलवासरे अन्तरराष्ट्रीय ओलम्पिकदिवसस्य अवसरे स्वस्य आधिकारिकनिवासात् ओक ओवर इत्यस्मात् ओलम्पिक मैराथनधावनस्पर्धां हरितध्वजं प्रदर्श्य प्रेषितवान्। एषा धावनस्पर्धा सीटीओमार्गेण गत्वा शिमलानगरस्य इन्दिरा गान्धी क्रीडापरिसरे सम्पन्ना। अस्यां मैराथनस्पर्धायां पुरुषवर्गे महिलावर्गे च प्रायः द्विशतं क्रीडकाः सहभागं कृतवन्तः।

अन्ताराष्ट्रिय ओलम्पिकदिवसस्य शुभकामनाः प्रदत्ताः

अन्ताराष्ट्रिय ओलम्पिकदिवसस्य शुभकामनाः प्रददत् मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः क्रीडानां संवर्धनाय प्रतिबद्धा अस्ति। क्रीडा अपि शिक्षायाः एकं स्वरूपम् अस्ति। यथा विद्यार्थिनः शिक्षाक्षेत्रे उत्कृष्टं प्रदर्शनं कुर्वन्ति, तथैव क्रीडकैः अपि क्रीडाक्षेत्रे उपलब्धयः सम्पाद्य प्रदेशस्य नाम गौरवान्वितं कर्तुं निरन्तरं प्रयत्नः करणीयः।

खेलो इण्डिया प्रतियोगितानां आयोजनाय प्रयत्नाः

सः उक्तवान् यत् राज्यसरकारः हिमाचलप्रदेशे खेलो इण्डिया प्रतियोगितानाम् आयोजनाय सततं प्रयत्नशीलास्ति। युवजनहिताय बिलासपुर, काङ्गडा, ऊना तथा हमीरपुरजनपदेषु सुदृढा क्रीडामूलसंरचना पूर्वमेव विकसिताऽस्ति।

नादौनस्थे उत्कृष्टताकेन्द्रस्य निर्माणम्

एतदतिरिक्तं हमीरपुरजिलस्य नादौनस्थाने क्रीडाक्षेत्राय उत्कृष्टताकेन्द्रम् एकं शतपञ्चाशत्कोटिरूप्यकव्ययेन निर्मीयते, यत् अस्मिन् वर्षे अक्टोबरमासपर्यन्तं पूर्णं भविष्यतीति सम्भावना वर्तते।

पदकविजेतृभ्यः पुरस्कारराशौ वृद्धिः

सुक्खू उक्तवान् यत् राज्यसरकारेण ओलम्पिक, पैरालम्पिक तथा शीतकालीन ओलम्पिकस्पर्धासु स्वर्णपदकविजेतृभ्यः प्रदीयमाना पुरस्कारराशिः त्रिकोटि-रूप्यकेभ्यः वर्धयित्वा पञ्चकोटि-रूप्यकाणि कृता अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani