Enter your Email Address to subscribe to our newsletters

इतिहासस्य पृष्ठेषु जूनमासस्य २४ दिनाङ्कः अनेकाभिः महत्त्वपूर्णाभिः घटनाभिः अभिलेखितः अस्ति। अयं दिवसः सञ्चार-, क्रिकेट- तथा टेनिस-क्रीडाक्षेत्रेषु तादृशानां घटनानां साक्षी अभवत्, याभिः स्वस्वक्षेत्रेषु विशिष्ट: परिचय: प्राप्त:।
१९७४ तमे वर्षे भारतीय-क्रिकेट-इतिहासे एकः स्मरणीयः अध्यायः लिखितः। इङ्ग्लैण्डदेशस्य लॉर्ड्स-क्रीडाङ्गणे सम्पन्नस्य टेस्ट-क्रीडायाः द्वितीयपार्यां भारतीयदलम् केवलं ४२ धावनाङ्कान् अर्जयितुं अशकत्। एषः धावनाङ्कः अद्यापि टेस्ट-क्रिकेटक्रीडायां भारतस्य न्यूनतमः धावनाङ्कः मन्यते।
तस्मिन् स्पर्धायां इङ्ग्लैण्डस्य कन्दुकक्षेपकैः भारतीय-प्रहारिणां क्रमः सम्पूर्णतया विघटितः। बहूनि दशकानि व्यतीतान्यपि एषः अभिलेखः भारतीय-क्रिकेट-इतिहासस्य अत्यन्तं कठिनेषु दिवसषु गण्यते।
जूनमासस्य २४ दिनाङ्कः टेनिस-इतिहासेऽपि अद्वितीयस्य अभिलेखस्य साक्षी अभवत्। २०१० तमे वर्षे विम्बल्डन-चैम्पियनशिप्-स्पर्धायां क्रीडिता एका स्पर्धात्मकी प्रतिस्पर्धा ११ होरा ५ निमेषान् यावत् प्रवृत्ता। एषा टेनिस-इतिहासस्य दीर्घतमा स्पर्धात्मकी प्रतिस्पर्धा इति प्रसिद्धा। अनेन ऐतिहासिकेन प्रतिस्पर्धया विश्वस्य क्रीडाप्रेमिणां विशेषम् आकर्षणम् उत्पन्नम् तथा धैर्यस्य, संघर्षस्य, क्रीडाभावनायाश्च अनुपमम् उदाहरणं प्रस्तुतम्।
सञ्चारक्षेत्रेऽपि जूनमासस्य २४ दिनाङ्कस्य विशेषं महत्त्वम् अस्ति। अस्मिन्नेव दिने डाक-तार-विभागेन राष्ट्रिय-टेलेक्स-सेवायाः शुभारम्भः कृतः। तस्मिन् काले एषा सेवा सञ्चार-व्यवस्थायां महत्त्वपूर्णा प्रौद्योगिक-उपलब्धिः मन्यते स्म। अस्याः माध्यमेन शासकीय-व्यावसायिक-संस्थानानां मध्ये सन्देशानां आदान-प्रदानं अधिकं शीघ्रं सुलभं च अभवत्।
इतिहासस्य एताः घटनाः सूचयन्ति यत् जूनमासस्य २४ दिनाङ्कः केवलं पञ्चाङ्गस्य एकः दिवसः नास्ति, अपितु क्रीडा-प्रौद्योगिकी-सञ्चार-क्षेत्रेषु बहूनां महत्त्वपूर्णानाम् उपलब्धीनां स्मरणीय-क्षणानां च साक्षी अस्ति।
प्रमुखाः घटनाक्रमाः
१२०६ — दिल्ली-सुल्तानतस्य प्रथमः सुल्तानः कुतुबुद्दीन-ऐबकः लाहौर-नगरे (अधुना पाकिस्ताने) राज्याभिषिक्तः।१५६४ — वीराङ्गना महाराज्ञी दुर्गावती मुगलैः सह युद्धे वीरगतिं प्राप्तवती।१७९३ — फ्रान्सदेशेन प्रथमवारं गणराज्यस्य संविधानम् अङ्गीकृतम्।१९६३ — डाक-तार-विभागेन राष्ट्रिय-टेलेक्स-सेवायाः शुभारम्भः कृतः।१९६६ — मुम्बईतः न्यूयॉर्क-नगरं प्रति गच्छतः एयर-इण्डिया-विमानस्य स्विट्जरलैण्डदेशस्य मॉण्ट्-ब्लाङ्क-पर्वते दुर्घटनायां ११७ जनाः मृताः।१९७४ — लॉर्ड्स-टेस्ट-क्रीडायां भारतीय-दलं द्वितीयपार्यां ४२ धावनाङ्केषु एव समापितम्। एषः टेस्ट-क्रिकेटे भारतस्य न्यूनतमः धावनाङ्कः अस्ति।१९७५ — न्यूयॉर्कस्य जे.एफ.के.-विमानस्थानके विमान-दुर्घटनायां ११३ जनाः मृताः।१९९० — भारतेन तृतीय-वंशस्य प्रथम-प्रक्षेपास्त्रस्य ‘नाग’ इत्यस्य सफलं परीक्षणं कृतम्।२००४ — जॉन नेग्रोपोटे इराकदेशे अमेरिकादेशस्य प्रथमः राजदूतः नियुक्तः।२००५ — अमेरिकया भारतस्य संयुक्तराष्ट्रसुरक्षापरिषदि स्थायी-सदस्यत्वस्य कथनं समर्थितम्।२००६ — फिलिपीन्सदेशे मृत्युदण्डः निरस्तः।२००७ — इराक-उच्चन्यायाधिकरणेन अली-हसन-अल्-माजिद: इत्यनेन सहित त्रयाणां जनानां मृत्युदण्डः घोषितः।२००८ — नेपालदेशस्य प्रधानमन्त्री गिरिजाप्रसाद-कोइरालः स्वपदात् त्यागपत्रम् अददात्।२०१० — विम्बल्डन-टेनिस-स्पर्धायां जॉन-इस्नरः तथा निकोला-माहूतः इत्येतयोः मध्ये ११ होरा ५ निमेषान् यावत् दीर्घतमा प्रतिस्पर्धा अभवत्।२०१२ — सऊदी-अरबदेशेन प्रथमवारम् ओलम्पिक-क्रीडासु महिलानां सहभागितायै अनुमतिः प्रदत्ता।२०१६ — ब्रेक्जिट्-जनमतसंग्रहानन्तरं ब्रिटेनदेशस्य प्रधानमन्त्री डेविड्-कैमरूनः त्यागपत्रम् अददात्।२०१८ — तुर्कियेदेशस्य राष्ट्रपतिः रेचेप् तय्यिप् एर्दोआन् पुनः सत्तां प्राप्तवान्।
जन्म
१८६३ — विश्वनाथ-काशीनाथ-राजवाडेः, भारतीय-इतिहासकारः, लेखकः, विद्वान् च।१८६९ — दामोदर-हरि-चापेकरः, भारतीयः क्रान्तिकारिणः।१८८५ — तारा सिंहः, प्रसिद्धः राजनीतिज्ञः सिक्ख-नेता च।१८९७ — ओंकारनाथ-ठाकुरः, हिन्दुस्तानी-शास्त्रीय-सङ्गीतस्य प्रख्यातः गायकः।१९३७ — अनीता-देसाई, आङ्ग्ल-साहित्यस्य विख्याता लेखिका।१९३७ — जगन्नाथ-मिश्रः, बिहारराज्यस्य भूतपूर्वः मुख्यमन्त्री।
निधनम्
१५६४ — महाराणी दुर्गावती, भारतीय-इतिहासस्य वीराङ्गना।१८८१ — पण्डित-श्रद्धाराम-शर्मा, ‘ॐ जय जगदीश हरे’ आरार्तिक्या: रचयिता, हिन्दी-पञ्जाबी-साहित्यकारः।१९५० — दरबानसिंह-नेगी, प्रथम-विश्वयुद्धे विक्टोरिया-क्रॉस सम्मानस्य प्राप्तः भारतीयः सैनिकः।१९८० — वी. वी. गिरिः, भारतस्य चतुर्थः राष्ट्रपतिः।२००१ — अवधानम् सीतारामन्, भारतीयः लेखकः पत्रकारश्च।
/ अंशु गुप्ता