दिल्ल्याम् प्रथम जनवरी यावत् 2025 यावत् अस्तित्वे अवर्तत वसतिनिवासिभ्यो मिलिष्यति पुनर्वासस्य लाभः
नवदिल्ली, 23 जूनमासः (हि.स.)।रेखा गुप्ता अध्यक्षतायां मङ्गलवासरे आयोजितायां दिल्ली शहरी आश्रय सुधार बोर्डस्य डूसिब इत्यस्य षट्त्रिंशत्तमायां परिषदःउपवेशनायां झुग्गी वसतीनां पुनर्वासविषये महत्त्वपूर्णः निर्णयः कृतः। सर्वकारस्य अनुसारम् उपवेशने निश्च
दिल्ली की मुख्यमंत्री रेखा गुप्ता (फाइल फोटो)।


नवदिल्ली, 23 जूनमासः (हि.स.)।रेखा गुप्ता अध्यक्षतायां मङ्गलवासरे आयोजितायां दिल्ली शहरी आश्रय सुधार बोर्डस्य डूसिब इत्यस्य षट्त्रिंशत्तमायां परिषदःउपवेशनायां झुग्गी वसतीनां पुनर्वासविषये महत्त्वपूर्णः निर्णयः कृतः। सर्वकारस्य अनुसारम् उपवेशने निश्चितम् यत् दिल्लीनगरे एकजनवरी २०२५ पर्यन्तम् अस्तित्वे स्थितानां सर्वासां झुग्गी बस्तीनां पात्रनिवासिभ्यः पुनर्वासस्य लाभः प्रदास्यते। सर्वकारस्य मतम् अस्ति यत् अस्मात् निर्णयात् बहुसंख्यकेभ्यः झुग्गीवासिभ्यः राहतिः प्राप्स्यते। अस्य निर्णयस्य उद्देश्यं झुग्गी बस्तिषु निवसतां जनानां कृते श्रेष्ठतराः आवासीयसुविधाः प्रदातुं तेषां जीवनस्तरस्य च उन्नयनं कर्तुम् अस्ति।

--------------

Hindusthan Samachar / Dheeraj Maithani