३० जूनपर्यन्तं ट्रॉमा-केन्द्रस्य, नर्सिङ्ग-महाविद्यालयस्य तथा क्रिटिकल-केयर-एककस्य निर्माणकार्यं सम्पूर्णं कुर्वन्तु : जनपदाधिकारी
देवरियानगरम्, 23 जूनमास: (हि.स.)। उत्तरप्रदेशस्य देवरियाजनपदे जनपदाधिकारिणा निर्माणाधीन-परियोजनानां स्थलीयनिरीक्षणम् उत्तरप्रदेशस्य देवरियाजनपदस्य जनपदाधिकारी मधुसूदन: हुल्गी मंगलवासरे महर्षि: देवराहा बाबा स्वायत्तराज्यचिकित्सामहाविद्यालयस्य, दे
फोटो जिलाधिकारी


फोटो जिलाधिकारी निरीक्षण करते


देवरियानगरम्, 23 जूनमास: (हि.स.)।

उत्तरप्रदेशस्य देवरियाजनपदे जनपदाधिकारिणा निर्माणाधीन-परियोजनानां स्थलीयनिरीक्षणम्

उत्तरप्रदेशस्य देवरियाजनपदस्य जनपदाधिकारी मधुसूदन: हुल्गी मंगलवासरे महर्षि: देवराहा बाबा स्वायत्तराज्यचिकित्सामहाविद्यालयस्य, देवरियायाः निर्माणाधीनस्य ट्रॉमाकेन्द्रस्य, नर्सिङ्ग-महाविद्यालयस्य, क्रिटिकल केयर यूनिटस्य तथा अन्यासां विविधनिर्माणाधीनपरियोजनानां स्थलीयनिरीक्षणम् अकरोत्। अस्मिन् अवसरे तेन ट्रॉमाकेन्द्रस्य निर्माणकार्यं ३० जूनदिनाङ्कपर्यन्तं सम्पन्नं कृत्वा हस्तान्तरणार्थं कठोरनिर्देशाः प्रदत्ताः। तेन उक्तं यत् हस्तान्तरणप्रक्रिया त्वरितं सम्पादनीया, येन पीआईसीयू, बालवार्डः तथा आपत्कालीनसेवानां सञ्चालनं ट्रॉमा सेन्टरभवने कर्तुं शक्येत।

नर्सिङ्ग-महाविद्यालयस्य तथा क्रिटिकल केयरविभागस्य कार्यसमाप्तये निर्देशाः

तेन कार्यदायिसंस्थायै अपि निर्देशः प्रदत्तः यत् नर्सिङ्ग् कॉलेजस्य तथा क्रिटिकल केयर यूनिटस्य निर्माणकार्यं ३० जूनदिनाङ्कपर्यन्तं सम्पन्नं कृत्वा हस्तान्तरितव्यं भवेत्।

अतिक्रमणनिवारणाय आदेशः

मेडिकल कॉलेजस्य बहिः मार्गे कृतम् अतिक्रमणं निष्कासयितुं देवरिया नगरपालिकापरिषदः अधिशासकाधिकाऱिणे निर्देशः प्रदत्तः।

विक्रेतृक्षेत्रे पुनर्स्थापनस्य निर्देशः

तेन चिकित्सामहाविद्यालयस्य समीपे स्थितानां आपणानां कृते वैकल्पिकभूमेः चिह्नीकरणं कृत्वा तान् विक्रेतृक्षेत्रे स्थापयितुं नगरपालिकापरिषदः अधिशासकाधिकाऱिणे निर्देशः प्रदत्तः।

अधिकारिणः अपि उपस्थिताः आसन्

जनपदाधिकारिणः निरीक्षणकाले मेडिकल कॉलेजस्य प्राचार्या डॉ.रजनीपटेल:, सीएमएस डॉ.एच.के.मिश्रः, वरिष्ठ-कोषाधिकारी अतुलकुमारपाण्डेयः, कार्यदायिसंस्थायाः सहायक-अभियन्ता तथा अन्ये सम्बद्धाः अधिकारिणः उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani