आईजीएनसीए-द्वाभ्यां महत्त्वपूर्णाभ्यां परियोजनाभ्यां ५४६ कोटिरूप्यकाणां स्वीकृतिः प्राप्ता - डॉ. सच्चिदानन्दजोशी
नवदेहली, २३ जूनमासः (हि.स.)। इन्दिरा-गान्धी-राष्ट्रीय-कलाकेन्द्रस्य सदस्यसचिवः डॉ. सच्चिदानन्दजोशी मङ्गलवासरे उक्तवान् यत् केन्द्रसर्वकारेण आईजीएनसीए-संस्थायाः द्वाभ्यां महत्त्वपूर्णाभ्यां परियोजनाभ्यां समग्रतया ५४६ कोटिरूप्यकाणां स्वीकृतिः प्रदत्त
आईजीएनसीए के सदस्य सचिव डॉ. सच्चिदानंद जोशी के साथ अन्य लोग मौजूद।


नवदेहली, २३ जूनमासः (हि.स.)। इन्दिरा-गान्धी-राष्ट्रीय-कलाकेन्द्रस्य सदस्यसचिवः डॉ. सच्चिदानन्दजोशी मङ्गलवासरे उक्तवान् यत् केन्द्रसर्वकारेण आईजीएनसीए-संस्थायाः द्वाभ्यां महत्त्वपूर्णाभ्यां परियोजनाभ्यां समग्रतया ५४६ कोटिरूप्यकाणां स्वीकृतिः प्रदत्ता अस्ति।

दिल्लीस्थे इन्दिरा-गान्धी-राष्ट्रीय-कलाकेन्द्रे पूर्वोत्तरभारतस्य अद्भुतां पारम्परिकशिल्पकलां सांस्कृतिकपरम्परां च प्रदर्शयन्त्याः दुर्लभप्रदर्शन्याः उद्घाटनावसरे सः एतद् उक्तवान्।

तेनोक्तम्— “अन्ताराष्ट्रियसम्मेलने प्रधानमन्त्रिणा घोषितायै ‘ज्ञानभारतम्-योजना’ इत्यस्यै ४९१ कोटिरूप्यकाणां तथा ‘बृहत्तरभारत’-परियोजनायै ५५ कोटिरूप्यकाणां आधिकारिकस्वीकृतिः प्राप्ता अस्ति।”

अस्मिन् अवसरे डॉ. जोशी पारम्परिक-भोजनपाकपात्राणां पुनः वर्धमानस्य प्रचलनस्य उल्लेखम् अकरोत्। सः अवदत् यत् अस्माकं पूर्वजाः न केवलं विचारपूर्वकं भोजनं पाचयन्ति स्म, अपितु पात्राणामपि एवं चयनं कुर्वन्ति स्म यथा शरीराय मृत्तिका-लोह-कांस्य-जस्त-प्रभृतिभ्यः आवश्यकतत्त्वानि प्राप्येरन्। अद्य एतस्यैव कारणात् अभिजनवर्गस्य जनाः उच्चमूल्येन लौहकटाहान् काष्ठपात्राणि च पुनः स्वीकुर्वन्ति।

पीतल-स्टेनलेस्-स्टील्-, हिण्डालियम्- तथा एल्युमिनियम्-पात्राणां परिवर्तितयुगस्य उल्लेखं कुर्वन् सः एतां प्रदर्शिनीं युवानः स्वमूलैः सह संयोजयन्तीं चिन्तनाय प्रेरयन्तीं च प्रशंसनीयं पदक्षेपम् इति अवदत्।

पद्मश्री-पुरस्कारेण सम्मानितः समाजसेवी टेकी गुबिन् अवदत् यत् पूर्वोत्तरभारतस्य जनान् तेषां मुखाकृत्या न मूल्याङ्कयितव्यम्। यदि वयं तेषां परिचयं ज्ञातुम् इच्छामः, तर्हि तेषां समृद्धां संस्कृतिं, सुन्दराणि पारम्परिकवस्त्राणि, उत्सवान् च अवगन्तव्यानि। अस्माकं राज्यं देशश्च अत्यन्तं वर्णबहुलः विविधश्च अस्ति।

प्रदर्शिन्याः शीर्षकं “लिविङ्ग् हेरिटेज् इन् मेटल्, बैम्बू एण्ड् क्ले : ट्रेडिशनल् यूटेन्सिल्स् ऑफ् नॉर्थ्-ईस्ट्” इति अस्ति। एषा प्रदर्शिनी शोधकर्तॄणां, कलाकाराणां, रूपकल्पकानां, संस्कृतिचिन्तकानां, कलाप्रेमिणां च कृते विशेषम् आकर्षणकेन्द्रम् अस्ति। अस्मिन् अवसरे द्वयोः मोनोग्रन्थयोः अपि लोकार्पणम् अभवत् तथा पूर्वोत्तरप्रदेशस्य कलाकारैः सांस्कृतिककार्यक्रमस्य प्रस्तुतीकरणम् अपि कृतम्।

एषा प्रदर्शिनी राष्ट्रीय-सांस्कृतिक-मानचित्रण-अभियानेन उत्तर-पूर्वी-हस्तशिल्प-हथकरघा-विकास-निगम-लिमिटेड् इत्यस्य सहयोगेन आयोजिता। एषा प्रदर्शनी २ जुलाई २०२६ पर्यन्तं दर्शकानां कृते उद्घाटिता भविष्यति।

अद्यतनस्य औद्योगिक-मशीनप्रधानयुगस्य मध्ये एषा प्रदर्शनी पूर्वोत्तरभारतस्य ताः जीवितपरम्पराः प्रकाशयति, याः धातु-बंस-मृत्तिका-प्रभृतयः प्राकृतिकसंसाधनान् आधारीकृत्य शताब्दीभ्यः लोकजीवनस्य अभिन्नाङ्गत्वेन स्थिताः सन्ति। एतेषु पारम्परिकपात्रेषु केवलं उपयोगिता निहिता नास्ति, अपितु समाजस्य स्मृतयः, जीवनपद्धतिः, प्रकृतिबोधः, सांस्कृतिकपरिचयश्च समाहिताः सन्ति।

अस्मिन् विशेषावसरे भारतीयपारम्परिककलाशिल्पयोः गहन-अनुसन्धानं प्रलेखनं च प्रोत्साहयन्तौ “बेल-मेटल क्राफ्ट ऑफ असम” तथा “चितेरी आर्ट ऑफ बुन्देलखण्ड” इति द्वौ महत्त्वपूर्णौ मोनोग्रन्थौ अपि लोकार्पितौ।

अस्मिन् अवसरे आईजीएनसीए-सदस्यसचिवः डॉ.सच्चिदानन्दजोशी, पद्मश्री-समाजसेवी टेकी गुबिन्, केन्द्रीयसंस्कृतिमन्त्रालयस्य संयुक्तसचिवा लिली पाण्डेय, आईजीएनसीए-संस्थायाः अधिष्ठाता तथा एनएमसीएम्-प्रभारी प्रो. (डॉ.) रमेशचन्द्रगौडः, एनएमसीएम्-निदेशकः डॉ. मयङ्कशेखरः, अन्ये गणमान्यजनाश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan