Enter your Email Address to subscribe to our newsletters

सुप्रसिद्धनटस्य रजनीकान्तस्य बहुप्रतीक्षितचलच्चित्रं जेलर २ इत्यस्य विषये नूतना सूचना प्रकाशम् आगता। समाजमाध्यमेषु व्यापकप्रचारं प्राप्तायाः एकस्याः चित्रस्य अनन्तरम् अभिनेता ऋतिकरोशनस्य अस्मिन् चलच्चित्रे सहभागिताविषये अटकलाः तीव्राः जाताः।
अस्मिन् चित्रे ऋतिकरोशनः केषाञ्चित् विमानचालकैः सह विमानपत्तने दृश्यते तथा च सः चेन्नैनगरम् प्राप्तवान् इति दावा क्रियते। ततः अनन्तरं प्रशंसकानां मध्ये चर्चा आरब्धा यत् अभिनेता अस्मिन् चलच्चित्रे स्वस्य कथितविशेषभूमिकायाः चित्रग्रहणार्थं नगरम् आगतः भवितुम् अर्हति। तथापि निर्मातृपक्षतः अद्यावधि कापि आधिकारिकपुष्टिः न कृता।
किञ्चित्कालपूर्वम् अपि वृत्तान्तेषु दावा कृतः आसीत् यत् ऋतिकरोशनः जेलर २ इति चलच्चित्रे विशेषभूमिकायां दृश्यते। अधुना चेन्नैनगरात् प्राप्तेन चित्रेण एतासां वार्तानां समर्थनम् अधिकं जातम्। यदि एषा वार्ता सत्यं सिद्ध्यति तर्हि प्रथमवारं रजनीकान्तः ऋतिकरोशनः च संयुक्तरूपेण बृहद्पटले दृश्येयाताम्। एतत् विषये दर्शकेषु विशेषः उत्साहः दृश्यते।
निर्देशकस्य नेल्सनदिलीपकुमारस्य निर्देशनाधीने निर्मीयमाणं जेलर २ इति चलच्चित्रं वर्षे २०२३ तमे प्रकाशितस्य महत्सफलतां प्राप्तस्य जेलर इति चलच्चित्रस्य उत्तरभागः अस्ति। अस्मिन् चलच्चित्रे रजनीकान्तः पुनः स्वस्य लोकप्रियपात्रस्य मुथुवेलपाण्डियनस्य रूपेण दृश्यते। एतदतिरिक्तं चलच्चित्रे मिथुनचक्रवर्ती, विद्याबालन्, सूर्या तथा सूरजवेञ्जारामूडु महत्त्वपूर्णेषु भूमिकासु दृश्यन्ते, यदा मोहनलालः तथा शिवराजकुमारः विशेषभूमिकायां दृश्येते। अस्य चलच्चित्रस्य विषये दर्शकानां मध्ये पूर्वमेव अत्यधिकौत्सुक्यं वर्तते।
---
Hindusthan Samachar / Dheeraj Maithani