भारत-अमेरिका द्विपक्षीय व्यापारसहमतेः प्रथम चरणे शुभारब्धा
नव दिल्ली, 23 जूनमासः (हि.स)। भारतदेशः अमेरिका च मङ्गलवासरे प्रस्तावितद्विपक्षीयव्यापारसहमतेः प्रथमचरणस्य विषये वार्तालापम् आरब्धवन्तौ। उभयोः देशयोः मध्ये एषा बैठक वाणिज्यउद्योगमन्त्रालयस्य मुख्यालये वाणिज्यभवने प्रचलति। अस्याः वार्तायाः नेतृत्व
अमेरिकी व्यापार प्रतिनिधि जैमिसन ग्रीर और एंबेसडर सर्जियो गोर के साथ पीयूष गोयल


नव दिल्ली, 23 जूनमासः (हि.स)।

भारतदेशः अमेरिका च मङ्गलवासरे प्रस्तावितद्विपक्षीयव्यापारसहमतेः प्रथमचरणस्य विषये वार्तालापम् आरब्धवन्तौ। उभयोः देशयोः मध्ये एषा बैठक वाणिज्यउद्योगमन्त्रालयस्य मुख्यालये वाणिज्यभवने प्रचलति।

अस्याः वार्तायाः नेतृत्वं केन्द्रीयवाणिज्यउद्योगमन्त्री पीयूषगोयलः अमेरिकादेशस्य व्यापारप्रतिनिधिः जेमिसनग्रीरः च कुर्वतः। उभयदेशीयप्रतिनिधिभिः प्रस्तावितद्विपक्षीयव्यापारसमझौतस्य प्रथमचरणसम्बद्धविषयेषु चर्चायाः आरम्भः कृतः। एषा संगोष्ठी अस्य मासस्य आरम्भे राष्ट्रराजधान्यां मुख्यवार्ताकारस्तरे सम्पन्नायाः वार्तायाः अनन्तरं भवति।

अस्मात् पूर्वं राजेशअग्रवालः पञ्चदशे जूनमासस्य दिने उक्तवान् यत् उभयोः मन्त्रिणोः मध्ये वार्ता मुख्यतया रूपरेखासमझौतस्य अन्तिमरूपप्रदाने केन्द्रिता भविष्यति इति अपेक्षा अस्ति।

केन्द्रीयवाणिज्यसचिवः राजेशअग्रवालः भारतस्य मुख्यवार्ताकारः वाणिज्यविभागस्य अतिरिक्तसचिवः दर्पणजैनः च अस्यां गोष्ठ्यां सहभागी स्तः।

अस्मात् पूर्वं केन्द्रीयवाणिज्यउद्योगमन्त्री पीयूषगोयलः एक्स इति समाजमाध्यममञ्चे प्रकाशितायां संसूचनायाम् उक्तवान् यत् भारतसर्वकारस्य वाणिज्यउद्योगमन्त्रालयस्य वाणिज्यविभागस्य पक्षतः अमेरिकादेशस्य व्यापारप्रतिनिधिः जैमिसनग्रीरः, भारतस्थितः अमेरिकादेशस्य राजदूतः सर्जियोगोरः, तेषां प्रतिनिधिमण्डलं च हार्दिकतया स्वागतार्हम् अस्ति। वयं द्विपक्षीयव्यापारसहमतेः विषये सार्थकचर्चायाः अपेक्षां कुर्मः।

---------------

Hindusthan Samachar / Dheeraj Maithani