Enter your Email Address to subscribe to our newsletters

रामगढम्, २३ जूनमासः (हि.स.)। श्रीसत्यनारायण-मन्दिर-धर्मशाला-संस्थायाः २०२६–२८ सत्रस्य कृते नूतनकार्यकारिण्याः गठनं कृतम्। गत-१६ जूनदिने सम्पन्ननिर्वाचनानन्तरं निर्वाचन-समित्या विजयी-प्रत्याशिनां मध्ये पदविभाजनं कृत्वा मङ्गलवासरे नूतनकार्यकारिण्याः घोषणा कृता। संस्थायाः अध्यक्षपदस्य दायित्वं पुनरेकवारं समाजसेविने बिमल-बुधियाय समर्पितम्।
नूतनकार्यकारिण्यां रोहित-पंसारी उपाध्यक्षः, मुरारीलाल-अग्रवालः महामन्त्री, सुनील-गोयलः सहमन्त्री तथा मन्दिर-प्रभारी, अरविन्द-गोयलः कोषाध्यक्षः, मनोज-मित्तलः भण्डारी, नरेश-अग्रवालः सहभण्डारी तथा धर्मशालाप्रभारी नियुक्ताः। कार्यकारिणी-सदस्यत्वेन जगदीश-गोयलः, उपकार-अग्रवालः, विश्वनाथ-अग्रवालः तथा प्रवीण-अग्रवालः दायित्वानि प्राप्तवन्तः।
अध्यक्षपदस्य दायित्वं स्वीकृत्य बिमल-बुधिया अवदत् यत् गतकार्यकाले (२०२४–२६) मन्दिरस्य धर्मशालायाश्च सौन्दर्यवर्धनाय व्यवस्थासुदृढीकरणाय च अनेकानि कार्याणि प्रारब्धानि आसन्, किन्तु अद्यापि बहव्य: योजनाः अपूर्णाः सन्ति। नूतनकार्यकारिण्याः सहयोगेन एतानि कार्याणि शीघ्रमेव सम्पाद्य समाजाय समर्पयिष्यन्ते। तेन उक्तं यत् समाजसेवायाः कार्यमेव कार्यकारिण्याः प्रमुखम् उद्देश्यम् अस्ति। समाजेन यस्मिन् विश्वासेन एतत् दायित्वं प्रदत्तम्, तस्मिन् विश्वासे कार्यान्वयनं कर्तुं सर्वथा प्रयत्नः करिष्यते। तेन समाजस्य सर्वान् वर्गान् सह गन्तुं तथा युवभ्यः आरभ्य वरिष्ठजनपर्यन्तं सर्वान् एकसूत्रे सम्बद्धान् कर्तुं स्वसंकल्पः पुनरुच्चारितः।
नूतनकार्यकारिण्याः गठनानन्तरम् अध्यक्षः बिमल-बुधिया निर्वाचनसमितेः समाजस्य सर्वेषां सदस्यान् च प्रति कृतज्ञतां प्रकटयन् अवदत् यत् सर्वेषां सहयोगेन विश्वासेन च संस्था अग्रिमद्विवर्षयोः धार्मिक-सामाजिक-जनकल्याणकारी-कार्यक्रमान् नूतनशिखरं प्रति नेतुं प्रयतिष्यते।
/ अंशु गुप्ता