शिक्षितः संस्कारी युवा एव देशं निर्माति विकसितम् : बसंतः
रामगढ़म्, 23 जूनमासः (हि.स.)। रामगढनगरस्य मारवाडीधर्मशालायां षोडशः मारवाडीप्रतिभासम्मानसमारोहः आयोजितः। मङ्गलवासरे अस्मिन् कार्यक्रमे तेषां युवानां सम्माननं प्रोत्साहनं च कृतम्, ये समाजस्य राष्ट्रस्य च विकासगतेः तीव्रीकरणाय स्वीयं योगदानं दत्तवन्
कार्यक्रम में शामिल लोग


रामगढ़म्, 23 जूनमासः (हि.स.)।

रामगढनगरस्य मारवाडीधर्मशालायां षोडशः मारवाडीप्रतिभासम्मानसमारोहः आयोजितः। मङ्गलवासरे अस्मिन् कार्यक्रमे तेषां युवानां सम्माननं प्रोत्साहनं च कृतम्, ये समाजस्य राष्ट्रस्य च विकासगतेः तीव्रीकरणाय स्वीयं योगदानं दत्तवन्तः। अस्मिन् अवसरे अखिलभारतीयअग्रवालसम्मेलनस्य अग्रसेनफाउण्डेशनस्य च राष्ट्रीयाध्यक्षः तथा झारखण्डप्रान्तीयमारवाडीसम्मेलनस्य पूर्वप्रान्तीयाध्यक्षः बसन्तकुमारमित्तलः मुख्यातिथिरूपेण उपस्थितः आसीत्।

मानदसचिवः प्रभातकुमारअग्रवालः संयुक्तसचिवः उमेशराजगढिया च पुष्पगुच्छं समर्प्य मुख्यातिथेः अभिनन्दनम् अकुरुताम्। ततः मुख्यातिथिः मञ्चस्य पदाधिकारीणश्च संयुक्तरूपेण दीपप्रज्वालनं कृत्वा समारोहस्य शुभारम्भम् अकुर्वन्।

अवसरे मुख्यातिथिः बसन्तकुमारमित्तलः अवदत् यत् रामगढः मम जन्मभूमिः अस्ति। अत्र आगत्य मम नूतना ऊर्जा प्राप्यते। मारवाडीप्रतिभासम्मानमञ्चः समाजस्य प्रतिभाशालिनः युवानः सम्मानयित्वा अनुकरणीयं कार्यं करोति, येन अन्ये युवानोऽपि प्रेरणां प्राप्स्यन्ति।

उपाध्यक्षः गोविन्दलालअग्रवालः अवदत् यत् कस्यापि राष्ट्रस्य प्रगतौ शिक्षितानां संस्कारवतां च युवानां भूमिका सर्वोपरि भवति। अध्यक्षः डॉ एके बरेलिया अवदत् यत् प्रतिभाशालिनां युवानां सम्माननं समाजस्य परमं दायित्वम् अस्ति। एतत् तान् अग्रे गन्तुं प्रेरणां ददाति।

संस्थापकाध्यक्षः सुरेशपीअग्रवालः अवदत् यत् परिश्रमस्य अनुशासनस्य समर्पणस्य शैक्षणिकोपलब्धीनां च सम्माननं कृत्वा युवानः उत्कृष्टतायाः नूतनशिखराणि प्रति प्रेरयितुमेव अस्य समारोहस्य मुख्योद्देशः अस्ति।

कार्यक्रमस्य अन्ते मुख्यातिथिं शालया सम्मान्य श्रीमद्भगवद्गीतायाः एकां प्रतिं समर्प्य सत्कृतम्। तथा च श्रीमारवाडीसत्यनारायणमन्दिरस्य धर्मशालासंस्थायाश्च अध्यक्षः बिमलबुधिया अन्ये पदाधिकारीणश्च मुख्यातिथये पुष्पगुच्छं शालां च समर्प्य अभिनन्दनम् अकुर्वन्।

अस्मिन् अवसरे श्यामसुन्दरपरसुरामपुरिया, सुरेशबगडिया, ललितजैनः, महेशबंसलः, मुरारीलालअग्रवालः, रोहितपंसारी, उपकारअग्रवालः, श्रृञ्जयमेवाडः, प्रिन्सअग्रवालः, प्रवीणअग्रवालः, सुनीलगोयलः इत्यादयः अन्ये च जनाः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani