पालमपुर-कृषि-विश्वविद्यालये रक्षाकर्मिभ्यः प्रशिक्षण-कार्यक्रमस्य शुभारम्भः
धर्मशालानगरम्, २३ जूनमासः (हि.स.)। चौधरी-सरवण-कुमार-हिमाचलप्रदेश-कृषि-विश्वविद्यालये, पालमपुरे, मङ्गलवासरे रक्षाकर्मिभ्यः पुनर्वास-महानिदेशालयेन प्रायोजितस्य सप्तमस्य दीर्घावधि-प्रशिक्षण-कार्यक्रमस्य शुभारम्भः अभवत्। “कृषि-वानिकी, छत्राक-उत्पादनम्,
प्रशिक्षण कार्यक्रम में हिस्सा लेने आए रक्षा कर्मी।


धर्मशालानगरम्, २३ जूनमासः (हि.स.)। चौधरी-सरवण-कुमार-हिमाचलप्रदेश-कृषि-विश्वविद्यालये, पालमपुरे, मङ्गलवासरे रक्षाकर्मिभ्यः पुनर्वास-महानिदेशालयेन प्रायोजितस्य सप्तमस्य दीर्घावधि-प्रशिक्षण-कार्यक्रमस्य शुभारम्भः अभवत्। “कृषि-वानिकी, छत्राक-उत्पादनम्, मधुमक्षिका-पालनम् तथा अज-पालनम्” इति विषये अयं चतुर्मासात्मकः प्रशिक्षण-कार्यक्रमः प्रतिभागिनां स्वरोजगारस्य सतत-आजीविकायाश्च अवसरार्थं तेषां तकनीकी-कौशलस्य उद्यमिता-ज्ञानस्य च विकासाय आयोजितः अस्ति।

लेफ्टिनेन्ट्-कर्नलः नवीनतोमरः मुख्यातिथिरूपेण उपस्थितः सन् प्रशिक्षण-कार्यक्रमस्य उद्घाटनम् अकरोत्। स्वसम्बोधने सः रक्षाकर्मिभ्यः एतादृशानां विशिष्ट-प्रशिक्षण-कार्यक्रमाणाम् आयोजनार्थं विश्वविद्यालयस्य प्रयासान् प्रशशंस तथा सैन्यसेवोत्तरजीवने सफलस्य उत्पादकस्य च नागरिकजीवनस्य कृते कौशल-विकासस्य उद्यमितायाश्च महत्त्वम् अवदत्।

प्रसार-शिक्षा-निदेशकः डाॅ.विनोदशर्मा अपि डीजीआर-प्रायोजित-प्रशिक्षण-कार्यक्रमैः रक्षाकर्मिणां क्षमता-निर्माणे, कौशल-विकासे तथा उद्यमिता-संवर्धने विश्वविद्यालयस्य प्रतिबद्धतां प्रतिपादितवान्। सः विश्वासं व्यक्तवान् यत् अयं प्रशिक्षण-कार्यक्रमः प्रतिभागिभ्यः उदीयमान-कृष्युद्यम-क्षेत्रेषु व्यावहारिकानुभवं तकनीकी-दक्षतां च प्रदास्यति।

अस्मिन् प्रशिक्षण-कार्यक्रमे कुलम् एकत्रिंशत् प्रतिभागिनः नामाङ्किताः सन्ति। तेषु त्रिंशत् भारतीय-स्थलसेनायाः तथा एकः भारतीय-नौसेनायाः सम्बद्धः अस्ति। चतुर्मासानां अवधौ प्रतिभागिभ्यः कृषि-वानिकी, छत्राक-उत्पादनम्, मधुमक्षिका-पालनम् तथा अज-पालनम् इत्यादिषु विषयेषु सघनं सैद्धान्तिकं व्यावहारिकं च प्रशिक्षणं प्रदास्यते। तदतिरिक्तं क्षेत्रीय-भ्रमणानां प्रदर्शन-कार्यक्रमाणां च आयोजनम् अपि भविष्यति।

प्रशिक्षण-प्रभारी डाॅ.लवभूषणः प्रशिक्षण-कार्यक्रमस्य रूपरेखां प्रस्तुतवान् तथा विविध-प्रशिक्षण-आदर्शानां, व्यावहारिक-सत्राणाम्, अध्ययन-भ्रमणानां च विषये विस्तरेण अवगतवान्। तेन उक्तं यत् अयं प्रशिक्षण-कार्यक्रमः प्रतिभागिनाम् उद्यमिता-क्षमताविकासाय तथा सेवानिवृत्तेः अनन्तरं कृष्याधारित-उद्यम-स्थापनाय प्रेरणाप्रदानार्थं विशेषरूपेण विनिर्मितः अस्ति।

Hindusthan Samachar / Divya Ranjan