Enter your Email Address to subscribe to our newsletters

भुवनेश्वरनगरम्, 23 जूनमास: (हि.स.)।
ओडिशाराज्यस्य मुख्यमन्त्रिणा ईस्ट कोस्ट रेलमार्गेषु कवचसुरक्षाप्रणाली-स्थापनस्य स्वागतं कृतम्
ओडिशाराज्यस्य मुख्यमन्त्री मोहनचरण: माझी ईस्ट कोस्ट रेलविभागस्य ६३१ मार्गकिलोमीटरपरिमिते क्षेत्रे कवच नाम्नः स्वचालित रेलयानसुरक्षा प्रणाली-स्थापनाय अनुमोदनं प्राप्तमिति ज्ञात्वा तस्य स्वागतं कृतवान् तथा च एतत् रेलमूलसंरचनाक्षेत्रस्य महत्त्वपूर्णाम् उपलब्धिम् इति अभवत्।
यात्रिकसुरक्षायाः वृद्धिः भविष्यति
सामाजिकमाध्यमेषु प्रसारिते स्वसन्देशे मुख्यमन्त्री उक्तवान् यत् ईस्ट कोस्ट रेलवेजालस्य प्रमुखभागरूपेण ओडिशा-राज्यं अस्याः अत्याधुनिकसुरक्षा-प्रणाल्याः व्यापकं लाभं प्राप्स्यति। अनेन यात्रिकाणां सुरक्षायां वृद्धिः भविष्यति, रेलदुर्घटनानां जोखिमः न्यूनः भविष्यति, रेलयान-सञ्चालनं अधिकं सुचारुं भविष्यति तथा रेलसेवानां विश्वसनीयतायाम् अपि सुधारः भविष्यति।
आर्थिकविकासाय अपि लाभप्रदं भविष्यति
तेन उक्तं यत् स्वदेशीयप्रौद्योगिक्याः आधारेण निर्मिता एषा आधुनिकप्रणाली राज्ये उत्तमसम्पर्कव्यवस्थायाः संवर्धनं करिष्यति तथा आर्थिकविकासाय अपि गतिं प्रदास्यति। एषा प्रणाली जनानां कृते अधिकसुरक्षितस्य दक्षस्य च रेलजालस्य निर्माणे महत्त्वपूर्णां भूमिकां निर्वहिष्यति।
प्रधानमन्त्रिणः तथा रेलमन्त्रिणः प्रति कृतज्ञता व्यक्ता
मुख्यमन्त्री रेलसुरक्षायाः सुदृढीकरणाय तथा भारतीयरेलवेस्य आधुनिकीकरणाय प्रधानमन्त्री नरेंद्र मोदी तथा केन्द्रीयरेलमन्त्री अश्विनी वैष्णव इत्येताभ्यां प्रति कृतज्ञतां व्यक्तवान्। तेन उक्तं यत् एतयोः नेतृत्वे देशे रेलसुरक्षायाः तथा आधुनिकप्रौद्योगिक्याः विस्ताराय नूतना दिशा प्राप्ता अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani