आस्था-समितेः ‘लोकरङ्गबहार’-कार्यक्रमस्य आयोजनम् २४ जूनमासे
प्रयागराजः, २३ जूनमासः (हि.स.)। सामाजिक-सांस्कृतिकसंस्था आस्था-समितिः लोकसङ्गीताधारितस्य ‘लोकरङ्गबहार’ इति भव्यकार्यक्रमस्य आयोजनं २४ जूनमासे सायं ५:३० वादनसमयात् रानी-रेवती-देवी-सरस्वती-विद्या-निकेतन-इण्टर-महाविद्यालय:, राजापुरे करिष्यति। संस्थाय
कार्यक्रम


प्रयागराजः, २३ जूनमासः (हि.स.)। सामाजिक-सांस्कृतिकसंस्था आस्था-समितिः लोकसङ्गीताधारितस्य ‘लोकरङ्गबहार’ इति भव्यकार्यक्रमस्य आयोजनं २४ जूनमासे सायं ५:३० वादनसमयात् रानी-रेवती-देवी-सरस्वती-विद्या-निकेतन-इण्टर-महाविद्यालय:, राजापुरे करिष्यति।

संस्थायाः महासचिवः मनोजकुमारगुप्तः अवदत् यत् भारतस्य मृत्तिकया सम्बद्धायाः लोककलायाः जन-जनपर्यन्तं प्रसारस्य उद्देशेन अस्य कार्यक्रमस्य आयोजनं क्रियते। अस्मिन् कार्यक्रमे लोकगीतानां लोकनृत्यानां च समन्वितं लोकसङ्गीतप्रस्तुतिकरणं भविष्यति।

सुविख्याता लोकनृत्याङ्गना बीनासिंह: स्वदलसहितं पारम्परिकलोकनृत्यानि प्रस्तोष्यति। तथैव कृतिश्रीवास्तव:, शिखात्रिपाठी, कीर्तिचौधरी, ज्योति-आनन्दः तथा ऐश्वर्याश्रीवास्तव: लोकगीतानां प्रस्तुतीः करिष्यन्ति। कार्यक्रमस्य सञ्चालनं प्रख्यातः उद्घोषकः सञ्जय: पुरुषार्थी करिष्यति।

मनोजकुमारगुप्तेन उक्तं यत् कार्यक्रमस्य अतिथिषु न्यायमूर्तिः विजयलक्ष्मी, महापौरः गणेशचन्द-केसरवानी, नगरस्य उत्तरक्षेत्रस्य विधायकः हर्षवर्धन-बाजपेयी, उत्तरमध्य-क्षेत्र-सांस्कृतिक-केन्द्रस्य निदेशकः सुदेशशर्मा, रानी-रेवती-देवी-इण्टर-महाविद्यालयस्य प्रधानाचार्यः सतीशकुमारसिंहः तथा प्रबन्धकः राकेशसिंह-सेंगरः उपस्थिताः भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan