Enter your Email Address to subscribe to our newsletters

जयपुरम्, 23 जूनमासः (हि.स.)।
पशुपालनगोपालनदेवस्थानमन्त्री श्रीजोरारामकुमावतः बुधवासरे ब्यावरजनपदस्य श्रीतिजारतीसर्राफानगौशालातः लम्पीरोगप्रतिरोधकटीकाकरणाभियानस्य शुभारम्भं करिष्यति। अभियानस्य आरम्भः गौशालापरिसरे सायंकाले पञ्चवादने करिष्यते। द्विमासपर्यन्तं प्रचलमाने अस्मिन् अभियाने गोवंशीयपशूनां टीकाकरणस्य लक्ष्यं निर्धारितम् अस्ति।
मन्त्री कुमावतः अवदत् यत् प्रधानमन्त्रीणः नरेन्द्रमोदिनः संवेदनशीलमार्गदर्शने मुख्यमन्त्रिणः भजनलालशर्मणः कुशलनेतृत्वे च प्रदेशसर्वकारः पशूनां कल्याणार्थं समर्पितभावेन कार्यं करोति। तेन उक्तं यत् लम्पीरोगः पशूनां कृते प्राणघातकः सङ्क्रामकरोगः अस्ति। अनेन मुख्यतया गोवंशः प्रभावितः भवति तथा च पशुपालकैः महत् क्षतिं सोढव्यम् भवति। प्रदेशः पूर्वमेव अस्य रोगस्य कष्टं अनुभूतवान्। अतः अधुना अस्य रोगस्य निवारणार्थम् एहतियातरूपेण सर्वकारेण लम्पीरोगनियन्त्रणाय अनेकानि पदक्षेपाणि गृहीतानि, येषु टीकाकरणम् जागरूकताभियानं च प्रमुखे स्तः।
टीकाकरणम् अस्य रोगस्य निवारणस्य प्रमुखम् आयुधम् अस्ति, अतः राज्यसर्वकारेण पशूनां टीकाकरणे विशेषः बलः दत्तः। श्वः आरभ्य सम्पूर्णप्रदेशे द्विमासात्मकं टीकाकरणाभियानं सञ्चालयिष्यते, येन रोगस्य प्रसारः समये एव निरोद्धुं शक्येत। एतदतिरिक्तं ग्रामीणक्षेत्रेषु लम्पीरोगविषये सूचना प्रदातुं जागरूकताभियानमपि सञ्चालयिष्यते।
कुमावतः अवदत् यत् लम्पीस्किनडिजीजरोगस्य नियन्त्रणनिवारणयोः कृते भारतसर्वकारेण निर्गतानां मार्गनिर्देशानां नियमानां च अनुसारं टीकाकरणकार्यं सम्पादयिष्यते। गतद्विवर्षयोः सञ्चालितस्य टीकाकरणाभियानस्य अन्तर्गतं राज्यस्य प्रायः पञ्चनवतिप्रतिशतं गोवंशस्य टीकाकरणं कृतम्, येन रोगः समये एव नियन्त्रितः तथा च गोवंशहानिः प्रायः नगण्या अभवत्। वर्षे २०२५-२६ मध्ये १०८.९५ लक्षगोवंशीयपशूनां टीकाकरणं कृतम्।
विभागस्य निदेशकः डॉ सुरेशचन्दमीना अवदत् यत् अस्य रोगस्य सर्वेक्षणनिदाननियन्त्रणार्थं आवश्यकसिद्धताः तथा च जनपदखण्डस्तरयोः टीकाकरणार्थं सूक्ष्मस्तरीयकार्ययोजनानिर्माणाय विभागेन पूर्वमेव दिशानिर्देशाः निर्गताः सन्ति। जनपदस्य सूक्ष्मस्तरीयकार्ययोजनानुसारं संस्थाभ्यः तासां कार्यक्षेत्रेषु स्थितानां गोवंशीयपशूनां सङ्ख्यानुसारं टीकाकरणलक्ष्याणि आवण्टितानि सन्ति।
तेन उक्तं यत् अस्मिन् वर्षे राज्ये प्रथमवारं लम्पीस्किनडिजीजवैक्सीन होमोलोगुस राञ्चीस्ट्रेन इत्यस्य उपयोगः करिष्यते। भारतसर्वकारेण अधुना लम्पीस्किनडिजीजवैक्सीनस्य मान्यता प्रदत्ता तथा च तस्य उपयोगः अनुमतः अस्ति। अतः अस्मिन् वर्षे राज्ये लम्पीस्किनडिजीजवैक्सीनस्य राञ्चीस्ट्रेनस्य उपयोगं कृत्वा गोवंशीयपशुषु टीकाकरणं करिष्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani