Enter your Email Address to subscribe to our newsletters


नवदेहली, २३ जूनमासः (हि.स.)। छत्तीसगढ़राज्यस्य महासमुन्द-जनपदस्य सरायपाली-क्षेत्रस्थिते बलौदा-बेलमुंडी-हीरक-खण्डे वैज्ञानिक-अन्वेषणस्य समये उच्चगुणवत्तायुक्ताः पञ्च हीरकाणि प्राप्ताःशनि, येषां समग्रभारः प्रायः १.२२ कैरेट् अस्ति।
राष्ट्रीयखनिजविकासनिगमस्य तथा छत्तीसगढ़खनिजविकासनिगमस्य संयुक्तसंस्था एनएमडीसी-सीएमडीसी लिमिटेड् सोमवासरस्य सायङ्काले अस्याः उपलब्धेः आधिकारिकां पुष्टिं कृतवती।
संस्थया उक्तं यत् बलौदा-बेलमुंडी-हीरक-खण्डात् प्राप्तानां २०० टन खनिजपदार्थानां प्रसंस्करणानन्तरं पञ्च हीरकाणि प्राप्तानि, येषां समग्रभारः १.२२ कैरेट् अस्ति। खनिजविशेषज्ञाः एताम् उपलब्धिं महत्त्वपूर्णाम् मन्यन्ते, यतः एतेन अस्मिन् क्षेत्रे विशाल-हीरक-भण्डारस्य सम्भावना अधिकं दृढीभवति।
संस्थया सूचितं यत् क्षेत्रे स्ट्रीम-सेडिमेण्ट्-नमूनासङ्ग्रहः, भूभौतिक-सर्वेक्षणम्, तथा ५०० मीटर-गम्भीरम् अन्वेषण-भेदनम् कृत्वा सम्भावित-हीरक-क्षेत्रस्य परिचयः कृतः। ततः २०० टन-परिमितः पदार्थः मध्यप्रदेशस्य पन्नानगरे स्थितं हीरक-प्रसंस्करण-केन्द्रं प्रेषितः, यत्र परीक्षणकाले पञ्च हीरकाणि प्राप्तानि। एतस्याः उपलब्धेः पुष्टिः संस्थया २२ जूनमासे प्रकाशिते आधिकारिक-पत्रे कृता।
पत्रे अपि उक्तं यत् एनएमडीसी-सीएमडीसी लिमिटेड् संस्थायाः समीपे हीरकाणां सुरक्षित-संग्रहणस्य व्यवस्था नास्ति। अतः सर्वे पञ्च हीरकाः एनएमडीसी संस्थायाः पन्नास्थिते सुरक्षित-भण्डारगृहे सुरक्षिततया निक्षिप्ताः।
संस्थया उक्तं यत् एतेषु पञ्चसु हीरकेषु द्वे श्वेतवर्णीयौ जेम-गुणवत्तायुक्ते हीरके स्तः, ययोः भारः क्रमशः ०.१९ तथा ०.०६ कैरेट् अस्ति, तथा च एते सामान्य-हीरकेभ्यः गुणवत्तया श्रेष्ठे स्तः। अन्येषु एकं पीतवर्णीयं हीरकं ०.३२ कैरेट्-भारयुक्तम्, तथा द्वे कपिशवर्णीये हीरके क्रमशः ०.५९ तथा ०.०६ कैरेट्-भारयुक्ते प्राप्ते।
खनिजविशेषज्ञाः वदन्ति यत् प्रारम्भिक-अवस्थायामेव जेम-गुणवत्तायुक्तानां हीरकाणां प्राप्तिः अत्यन्तं शुभः संकेतः अस्ति। एषा उपलब्धिः अस्मिन् क्षेत्रे भविष्ये विशाल-हीरक-भण्डारस्य सम्भावनाम् अधिकं सुदृढां करोति। तेषां मते एतदन्वेषणं अग्रिमेषु वर्षेषु छत्तीसगढ़राज्यं देशस्य प्रमुख-हीरक-उत्पादक-राज्यानां श्रेण्यां स्थापयितुं शक्नोति।
जेम-गुणवत्तायुक्तानि हीरकाणि सर्वोत्तम-गुणयुक्तानी भवन्ति। ते आभूषण-निर्माणे प्रयुज्यन्ते तथा च तेषां मूल्यं अत्यधिकं भवति। तेषु उत्तमा कान्तिः, पारदर्शिता, उत्कृष्टः वर्णश्च भवति। अ-जेम-गुणवत्तायुक्तानि हीरकाणि मुख्यतया औद्योगिक-प्रयोजनेषु, यथा छेदन-उपकरण-निर्माणे, प्रयुज्यन्ते।
विशेषज्ञानां मते कस्यापि नूतन-हीरक-क्षेत्रस्य परिचयः लघु-नमूनैरेव प्रारभ्यते। अतः पञ्च हीरकाणां प्राप्तिः संख्यया अल्पा दृश्येत, किन्तु भूवैज्ञानिक-दृष्ट्या अस्याः उपलब्धेः महत्त्वम् अत्यधिकम् अस्ति। एतेन भविष्ये विस्तृततर-सर्वेक्षणस्य तथा सम्भावित-वाणिज्यिक-खननस्य मार्गः प्रशस्तः भवितुम् अर्हति।.
भारतं विश्वस्य महत्तमं हीरक-छेदन-परिष्कार-केन्द्रम् अस्ति, किन्तु कच्च-हीरकाणां प्राप्त्यर्थम् अद्यापि बहुलम् आयातम् आश्रयति। छत्तीसगढ़े एषा उपलब्धिः आत्मनिर्भर-भारतस्य लक्ष्यस्य सिद्धौ नूतनं वेगं दातुं शक्नोति। यदि सफलं वाणिज्यिक-खननम् आरभ्यते, तर्हि राज्ये निवेशस्य, रोजगारस्य, राजस्वस्य च उल्लेखनीया वृद्धिः भविष्यति।
अस्याः उपलब्धेः विषये मुख्यमन्त्री विष्णुदेवसायः उक्तवान्— महासमुन्द-जनपदे हीरकाणां प्राप्तिः छत्तीसगढ-राज्यस्य कृते महत्त्वपूर्णा उपलब्धिः अस्ति। एतदन्वेषणं राज्यस्य समृद्धां खनिज-सम्पदं प्रकाशयति तथा विकासस्य, निवेशस्य, रोजगारस्य च नूतनानां सम्भावनानां द्वाराणि उद्घाटयति।
/ अंशु गुप्ता