छत्तीसगढ़े जेम-गुणवत्तायुक्तानां हीरकाणां प्राप्तिः, देशाय नूतन-हीरक-भण्डारस्य संकेतः
नवदेहली, २३ जूनमासः (हि.स.)। छत्तीसगढ़राज्यस्य महासमुन्द-जनपदस्य सरायपाली-क्षेत्रस्थिते बलौदा-बेलमुंडी-हीरक-खण्डे वैज्ञानिक-अन्वेषणस्य समये उच्चगुणवत्तायुक्ताः पञ्च हीरकाणि प्राप्ताःशनि, येषां समग्रभारः प्रायः १.२२ कैरेट् अस्ति। राष्ट्रीयखनिजविकास
छत्तीसगढ़ के महासमुंद जिले में जेम क्वालिटी हीरों की खोज


छत्तीसगढ़ के महासमुंद जिले में जेम क्वालिटी हीरों की खोज


नवदेहली, २३ जूनमासः (हि.स.)। छत्तीसगढ़राज्यस्य महासमुन्द-जनपदस्य सरायपाली-क्षेत्रस्थिते बलौदा-बेलमुंडी-हीरक-खण्डे वैज्ञानिक-अन्वेषणस्य समये उच्चगुणवत्तायुक्ताः पञ्च हीरकाणि प्राप्ताःशनि, येषां समग्रभारः प्रायः १.२२ कैरेट् अस्ति।

राष्ट्रीयखनिजविकासनिगमस्य तथा छत्तीसगढ़खनिजविकासनिगमस्य संयुक्तसंस्था एनएमडीसी-सीएमडीसी लिमिटेड् सोमवासरस्य सायङ्काले अस्याः उपलब्धेः आधिकारिकां पुष्टिं कृतवती।

संस्थया उक्तं यत् बलौदा-बेलमुंडी-हीरक-खण्डात् प्राप्तानां २०० टन खनिजपदार्थानां प्रसंस्करणानन्तरं पञ्च हीरकाणि प्राप्तानि, येषां समग्रभारः १.२२ कैरेट् अस्ति। खनिजविशेषज्ञाः एताम् उपलब्धिं महत्त्वपूर्णाम् मन्यन्ते, यतः एतेन अस्मिन् क्षेत्रे विशाल-हीरक-भण्डारस्य सम्भावना अधिकं दृढीभवति।

संस्थया सूचितं यत् क्षेत्रे स्ट्रीम-सेडिमेण्ट्-नमूनासङ्ग्रहः, भूभौतिक-सर्वेक्षणम्, तथा ५०० मीटर-गम्भीरम् अन्वेषण-भेदनम् कृत्वा सम्भावित-हीरक-क्षेत्रस्य परिचयः कृतः। ततः २०० टन-परिमितः पदार्थः मध्यप्रदेशस्य पन्नानगरे स्थितं हीरक-प्रसंस्करण-केन्द्रं प्रेषितः, यत्र परीक्षणकाले पञ्च हीरकाणि प्राप्तानि। एतस्याः उपलब्धेः पुष्टिः संस्थया २२ जूनमासे प्रकाशिते आधिकारिक-पत्रे कृता।

पत्रे अपि उक्तं यत् एनएमडीसी-सीएमडीसी लिमिटेड् संस्थायाः समीपे हीरकाणां सुरक्षित-संग्रहणस्य व्यवस्था नास्ति। अतः सर्वे पञ्च हीरकाः एनएमडीसी संस्थायाः पन्नास्थिते सुरक्षित-भण्डारगृहे सुरक्षिततया निक्षिप्ताः।

संस्थया उक्तं यत् एतेषु पञ्चसु हीरकेषु द्वे श्वेतवर्णीयौ जेम-गुणवत्तायुक्ते हीरके स्तः, ययोः भारः क्रमशः ०.१९ तथा ०.०६ कैरेट् अस्ति, तथा च एते सामान्य-हीरकेभ्यः गुणवत्तया श्रेष्ठे स्तः। अन्येषु एकं पीतवर्णीयं हीरकं ०.३२ कैरेट्-भारयुक्तम्, तथा द्वे कपिशवर्णीये हीरके क्रमशः ०.५९ तथा ०.०६ कैरेट्-भारयुक्ते प्राप्ते।

खनिजविशेषज्ञाः वदन्ति यत् प्रारम्भिक-अवस्थायामेव जेम-गुणवत्तायुक्तानां हीरकाणां प्राप्तिः अत्यन्तं शुभः संकेतः अस्ति। एषा उपलब्धिः अस्मिन् क्षेत्रे भविष्ये विशाल-हीरक-भण्डारस्य सम्भावनाम् अधिकं सुदृढां करोति। तेषां मते एतदन्वेषणं अग्रिमेषु वर्षेषु छत्तीसगढ़राज्यं देशस्य प्रमुख-हीरक-उत्पादक-राज्यानां श्रेण्यां स्थापयितुं शक्नोति।

जेम-गुणवत्तायुक्तानि हीरकाणि सर्वोत्तम-गुणयुक्तानी भवन्ति। ते आभूषण-निर्माणे प्रयुज्यन्ते तथा च तेषां मूल्यं अत्यधिकं भवति। तेषु उत्तमा कान्तिः, पारदर्शिता, उत्कृष्टः वर्णश्च भवति। अ-जेम-गुणवत्तायुक्तानि हीरकाणि मुख्यतया औद्योगिक-प्रयोजनेषु, यथा छेदन-उपकरण-निर्माणे, प्रयुज्यन्ते।

विशेषज्ञानां मते कस्यापि नूतन-हीरक-क्षेत्रस्य परिचयः लघु-नमूनैरेव प्रारभ्यते। अतः पञ्च हीरकाणां प्राप्तिः संख्यया अल्पा दृश्येत, किन्तु भूवैज्ञानिक-दृष्ट्या अस्याः उपलब्धेः महत्त्वम् अत्यधिकम् अस्ति। एतेन भविष्ये विस्तृततर-सर्वेक्षणस्य तथा सम्भावित-वाणिज्यिक-खननस्य मार्गः प्रशस्तः भवितुम् अर्हति।.

भारतं विश्वस्य महत्तमं हीरक-छेदन-परिष्कार-केन्द्रम् अस्ति, किन्तु कच्च-हीरकाणां प्राप्त्यर्थम् अद्यापि बहुलम् आयातम् आश्रयति। छत्तीसगढ़े एषा उपलब्धिः आत्मनिर्भर-भारतस्य लक्ष्यस्य सिद्धौ नूतनं वेगं दातुं शक्नोति। यदि सफलं वाणिज्यिक-खननम् आरभ्यते, तर्हि राज्ये निवेशस्य, रोजगारस्य, राजस्वस्य च उल्लेखनीया वृद्धिः भविष्यति।

अस्याः उपलब्धेः विषये मुख्यमन्त्री विष्णुदेवसायः उक्तवान्— महासमुन्द-जनपदे हीरकाणां प्राप्तिः छत्तीसगढ-राज्यस्य कृते महत्त्वपूर्णा उपलब्धिः अस्ति। एतदन्वेषणं राज्यस्य समृद्धां खनिज-सम्पदं प्रकाशयति तथा विकासस्य, निवेशस्य, रोजगारस्य च नूतनानां सम्भावनानां द्वाराणि उद्घाटयति।

/ अंशु गुप्ता