Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २३ जूनमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादवः अद्य मङ्गलवासरे राजधानी-भोपालस्य अचारपुरा-स्थिते राष्ट्रीय-डिजाइन-संस्थायाः, मध्यप्रदेशस्य परिसरे आयोजिते पञ्च-दिवसीये आदिरङ्ग-शिल्पकार-महोत्सव-२०२६ इति समापन-समारोहे सहभागं करिष्यति।
जनसम्पर्क-अधिकारी आर.आर.पटेलः अवदत् यत् मुख्यमन्त्री महोत्सवस्य अवसरे जनजातीय-शिल्पकारैः विकसितानां नवोन्मेषात्मक-उत्पादानां तथा डिजाइन-हस्तक्षेपानां प्रदर्शिनीम् अवलोकयिष्यति। सः शिल्पकारैः, डिजाइन-विशेषज्ञैः, सहभागिभिश्च सह संवादमपि करिष्यति। अस्मिन् कार्यक्रमे जनजातीय-कार्य-मन्त्री डॉ.कुँवर-विजयशाहः विशिष्टातिथिरूपेण उपस्थितः भविष्यति। समारोहे जनजातीय-कला-शिल्प-आजीविका-संवर्धन-क्षेत्रे क्रियमाणानां प्रयत्नानां तथा डिजाइन-आधारित-नवाचाराणां विषये अपि सूचना प्रदास्यते।
सः अवदत् यत् राष्ट्रीय-डिजाइन-संस्था, मध्यप्रदेशः तथा वन्या, जनजातीय-कार्य-विभागेन संयुक्ततया आयोजिते अस्मिन् महोत्सवे प्रदेशस्य विभिन्नेभ्यः अञ्चलेभ्यः आगताः १४० अधिकाः जनजातीय-शिल्पकाराः सहभागिनः सन्ति। भील-गोंड-बैगा- इत्यादि-जनजातीय-समुदायानां शिल्पकाराः स्वीयां पारम्परिक-कलां, शिल्पं, हस्तनिर्मित-उत्पादांश्च प्रदर्शयन्ति। महोत्सवे आयोजितासु डिजाइन-हस्तक्षेप-कार्यशालासु शिल्पकारैः एनआईडी-मध्यप्रदेशस्य अध्यापकैः छात्र-स्वयंसेवकैश्च सहकारेण विपण्याः आवश्यकतानुरूपाः नूतनाः उत्पादाः विकसिताः।
समापन-समारोहस्य अवसरे कार्यशालासु विकसितानां उत्पादानां तथा डिजाइन-अवधारणानां विशेष-प्रदर्शिनी अपि आयोजिता भविष्यति। एषा प्रदर्शिनी सायं ५:३० वादनात् आरभ्य सामान्य-नागरिकेभ्यः उद्घाटिता भविष्यति, यत्र आगन्तारः उत्पादान् द्रष्टुं शक्नुवन्ति। तथा च भील-गोंड-बैगा- इत्यादि-जनजातीय-समुदायानां शिल्पकारैः प्रदर्शिता: मौलिक-कलाकृतयः हस्तशिल्प-उत्पादाश्च क्रयार्थम् उपलब्धाः भविष्यन्ति।
आदिरङ्ग-शिल्पकार-महोत्सवः जनजातीय-कलायाः, संस्कृतेः, पारम्परिक-ज्ञानस्य च व्यापकं मञ्चं प्रददाति। सः शिल्पकाराणां कृते नूतन-विपणी-अवसराणाम् आजीविका-विकासस्य च सृजनदिशि महत्त्वपूर्ण: प्रयत्न: अस्ति। एनआईडी-मध्यप्रदेशस्य तथा वन्या इत्येतयोः संयुक्त-प्रयत्नेन आयोजितः अयं महोत्सवः डिजाइन-परम्परयोः समन्वयस्य सशक्तम् उदाहरणं भवति।
Hindusthan Samachar / Divya Ranjan