Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, 23 जून (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः राष्ट्राय जीवनं समर्पितवन्तं भारतीयजन-संघस्य संस्थापकं डॉ.श्यामाप्रसाद-मुखर्जीमहाभागं तस्य बलिदानदिवसे विनम्रश्रद्धाञ्जलिं समर्पितवान्।
मुख्यमन्त्री डॉ.यादवः मंगलवासरे भोपालनगरे डॉ. श्यामाप्रसादमुखर्जी त्रिपथं गत्वा तस्य प्रतिमायाः समक्षं पुष्पाञ्जलिं समर्पितवान्। सः स्वसन्देशे उक्तवान् यत् राष्ट्रप्रथमभावनायै समर्पिता तस्य प्रखरविचारधारा तथा देशस्य अखण्डतायै तस्य दृढसंकल्पः सर्वदा प्रेरणां दास्यति। देशः अनन्तकालपर्यन्तं डॉ. मुखर्जी-महाभागस्य ऋणी भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani