Enter your Email Address to subscribe to our newsletters

भोपालम्, 23 जूनमासः (हि.स.)।
अन्ताराष्ट्रिय ओलम्पिकदिवसस्य अवसरे अद्य मङ्गलवासरे छत्तीसगढे क्रीडा तथा पर्यावरणसंरक्षणस्य अद्वितीयः संगमः दृश्यते। छत्तीसगढ ओलम्पिक संघस्य तथा वनविभागस्य संयुक्ततत्त्वावधाने बीएसएफ कैम्प नवा रायपुरस्थिते पलौदग्रामे विशेषवृक्षारोपणकार्यक्रमस्य आयोजनं क्रियते।
कार्यक्रमे मुख्यमंत्री विष्णुदेव साय मुख्यातिथिरूपेण सहभागं करिष्यति। मुख्यमन्त्रिणः सायस्य उपस्थित्या क्रीडकानां क्रीडासङ्घटनानां तथा पर्यावरणसंरक्षणेन सम्बद्धानां जनानाम् उत्साहः वर्धिष्यते।
उल्लेखनीयम् अस्ति यत् भारतीय ओलंपिक संघ इत्यस्य आह्वानेन अस्मिन् वर्षे अन्तर्राष्ट्रीय ओलम्पिकदिवसस्य अवसरे छत्तीसगढे २०३६ वृक्षाणां रोपणस्य लक्ष्यं निर्धारितम् अस्ति। अयं अभियानः पर्यावरणसंरक्षणस्य हरितविकासस्य जलवायुसन्तुलनस्य च दिशि महत्त्वपूर्णः अस्ति।
अस्य आयोजनस्य माध्यमेन क्रीडकाः युवानश्च क्रीडाभिः सह पर्यावरणसंरक्षणस्य प्रति अपि जागरूकाः कारयिष्यन्ते। वृक्षारोपणाभियानं प्रदेशे हरितावरणवृद्धौ जैवविविधतासंरक्षणे तथा स्वच्छस्वस्थपर्यावरणनिर्माणे महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani