Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २३ जूनमासः (हि.स.)। मध्यप्रदेश-शासनेन मण्डी-शुल्के सार्धैक-प्रतिशतस्य वृद्धिः कृता। अस्याः शुल्कवृद्धेः विरोधे अद्य मङ्गलवासरे धान्यव्यापारिणः विरोधप्रदर्शने स्थिताः सन्ति। तेन कारणेन प्रदेशस्य सर्वासु कृषि-मण्डीषु नीलामी-कार्यं पूर्णतया स्थगितं भविष्यति।
अन्न-व्यापारी-महासङ्घस्य आह्वानेन एतत् प्रदर्शनं क्रियते। महासङ्घेन अस्मिन् विषये सर्वेभ्यः मण्डी-सचिवेभ्यः पत्रं प्रेषितम्। तस्मिन् उक्तं यत् १६ जूनतः प्रवृत्तायाः मण्डी-शुल्कवृद्धेः विरोधे सकल-अन्न-दलहन-तिलहन-व्यापारी-महासङ्घः, मध्यप्रदेशः सम्पूर्णे राज्ये एकदिवसीय-विरोधप्रदर्शनस्य निर्णयं कृतवान्।
अन्न-व्यापारी-सङ्घस्य अध्यक्षः भगवानदास-अग्रवालः शासनस्य एतत् पादक्षेपम् अव्यावहारिकम् इति वर्णयन् अवदत् यत् अधुना एव विपण्यां मन्दी तथा महार्घतायाः प्रभावः वर्तते। एवं सति शुल्कवृद्धिः न समीचीना। एषः विरोधः शासनस्य ध्यानाकर्षणार्थं प्रतीकात्मकः प्रयत्नः अस्ति। तेन शासनं स्वनिर्णयस्य पुनर्विचारं कुर्यात् इति सः आग्रहं कृतवान्।
तिलहन-व्यापारी-सङ्घस्य, इन्दौरस्य अध्यक्षः मनोज-कालः अवदत् यत् गुजरात-छत्तीसगढ़-महाराष्ट्र-इत्यादि-राज्येभ्यः अपेक्षया पूर्वमेव मध्यप्रदेशे मण्डी-शुल्कं अधिकम् आसीत्। अधुना तत् पुनरपि वर्धितम्। अतः अस्य विरोधः अत्यावश्यकः। अस्माभिः तु पूर्वमेव विरोधः प्रारब्धव्यः आसीत्।
सकल-अन्न-तिलहन-व्यापारी-महासङ्घस्य, इन्दौरस्य अध्यक्षः गोपालदास-अग्रवालः अवदत् यत् अस्मिन् विषये मुख्यमन्त्रिणा सह चर्चा प्रचलति स्म। पूर्वं शुल्कवृद्धेः सूचना प्राप्ता, किन्तु शासनस्थितैः उक्तम् आसीत् यत् तथा किमपि न भविष्यति। परन्तु अनन्तरम् अकस्मादेव निर्णयः कृतः, तत्क्षणमेव च प्रवर्तितः।
अपरतः विरोधप्रदर्शनस्य दृष्ट्या मण्डी-सचिवैः सर्वेभ्यः कृषकेभ्यः विशेषानुरोधः कृतः यत् मङ्गलवासरे नीलामी-कार्यस्य पूर्णतया स्थगितत्वात् स्वीयां कृष्युपजां विक्रयार्थं मण्डीं मा आगच्छन्तु, येन तेभ्य: कापि असुविधा न भवेत्।
Hindusthan Samachar / Divya Ranjan