अमरनाथ यात्रायाः सज्जासु साधु धर्म स्थान सुरक्षा समितेः उपवेशनम्
जम्मूः, 23 जूनमासः (हि.स.)। साधुधर्मस्थानसुरक्षासमितेः जम्मूकश्मीरस्य एका विशेषोपवेशनम् नरवालमण्डी जम्मूनगरे गौरक्षकाध्यक्षस्य राजकुमारगुप्तस्य अध्यक्षतायाम् आयोजितम्। उपवेशने आगाम्यामरनाथयात्रायाः सिद्धतासम्बद्धविषयेषु तथा च श्रद्धालूनां सुविधार्थ
अमरनाथ यात्रा की तैयारियों पर साधु धर्म स्थान सुरक्षा समिति की बैठक


जम्मूः, 23 जूनमासः (हि.स.)। साधुधर्मस्थानसुरक्षासमितेः जम्मूकश्मीरस्य एका विशेषोपवेशनम् नरवालमण्डी जम्मूनगरे गौरक्षकाध्यक्षस्य राजकुमारगुप्तस्य अध्यक्षतायाम् आयोजितम्। उपवेशने आगाम्यामरनाथयात्रायाः सिद्धतासम्बद्धविषयेषु तथा च श्रद्धालूनां सुविधार्थं सुरक्षार्थं च क्रियमाणव्यवस्थानां विषये विस्तरेण चर्चा कृता। उपवेशने समितेः सदस्यैः अमरनाथयात्रिकाणां कृते जम्मूकश्मीरप्रशासनेन उपराज्यपालेन च क्रियमाणानां सुरक्षासम्बद्धानाम् अन्येषां आवश्यकव्यवस्थानां च प्रशंसा कृता। तैः उक्तं यत् प्रशासनद्वारा यात्रायाः सुरक्षितसुचारुसञ्चालनार्थं व्यापकस्तरे सिद्धताः क्रियमाणाः सन्ति।

अस्मिन् अवसरे समितेः अध्यक्षः महन्तदत्तगिरिः, महासचिवः महन्तहरिशानन्दगिरिः, महन्तरमेश्वरगिरिः, महन्तविष्णुगिरिः, महन्तविशालगिरिः, महन्तमुकेशगिरिः, महन्तकृष्णगिरिः, महन्तमहिन्द्रगिरिः तथा रञ्जूगुप्ता इत्यादयः अन्ये सदस्याश्च उपस्थिताः आसन्।

उपवेशने एतदपि निर्धारितं यत् यात्राकाले जम्मूनगरम् आगच्छद्भ्यः श्रद्धालुभ्यः उत्तमाः सुविधाः आवश्यकसहयोगश्च प्रदातुं समितिः प्रशासनस्य सह समन्वयं विधाय कार्यं करिष्यति। सदस्यैः सफलायाः शान्तिपूर्णायाश्च अमरनाथयात्रायाः कृते सामूहिकसहयोगस्य संकल्पोऽपि व्यक्तः।

Hindusthan Samachar / Dheeraj Maithani