Enter your Email Address to subscribe to our newsletters

नवदेहली, २३ जूनमास: (हि.स.)। केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः मङ्गलवासरे भारतीय-राष्ट्रीय-कृषि-सहकारी-विपणन-संघस्य नूतनं डिजिटल-नीलामी-पटलम् ‘नाफेक्स.इन' उद्घाटितवान्। अस्मिन् अवसरे तेन उक्तं यत् एषः उपक्रमः देशस्य कृषकाणां कृषिसंस्थानां च हिताय पारदर्शितायाः, दक्षतायाः, सुगमतायाश्च संवर्धनदिशि महत्त्वपूर्णं पदम् अस्ति। तेन उक्तं यत् एषः आधुनिकः डिजिटल-मञ्चः नीलामीसम्बद्धकार्याणि सरलानि करिष्यति तथा कृषकाणाम् आर्थिकसशक्तीकरणे मीलस्तम्भवत् सिद्धः भविष्यति।
अस्मिन् कार्यक्रमे केन्द्रीयकृषि-कृषककल्याणमन्त्री शिवराजसिंहचौहानः, केन्द्रीयसहकारितिराज्यमन्त्री कृष्णपाल-गुर्जरः, नेफेड-अध्यक्षः जेठाभाई-अहीरः, उपाध्यक्षः सिद्धाप्पा एस.होट्टी, प्रबन्धनिदेशकः दीपक-अग्रवालः, अन्ये वरिष्ठाधिकारिणः कृषिविशेषज्ञाश्च उपस्थिताः आसन्।
अनेन नूतनेन पटलेन नेफेडः आधुनिकप्रौद्योगिकीम् उपयुज्य पारदर्शिरूपेण कृष्युत्पादानां क्रयव्यवस्थां सुदृढीकृतवान्। अस्य माध्यमेन क्रयानन्तरं अष्टचत्वारिंशत्-होराभ्यन्तरे प्रत्यक्षलाभ-हस्तान्तरण-प्रणाल्या कृषकस्य धनागार-लेखायां धनराशेः निक्षेपणं सुनिश्चितं भविष्यति। दीर्घपङ्क्तीनां परिहारार्थं पूर्वपञ्जीकरणस्य सुविधापि प्रदत्ता अस्ति।
अमितशाहः अवदत् यत् २०१४ तमे वर्षे यः नेफेडः प्रायः समापनस्य स्थितिम् अगच्छत्, स एव अद्य शासनस्य निरन्तरसुधारैः प्रयत्नैश्च ३० सहस्रकोटि-रूप्यकाणां वार्षिकव्यापारं, ५०० कोटि-रूप्यकाणां लाभं च अर्जयन् देशस्य ७६ लक्षाधिककृषकाणां सेवां करोति।
तेन उक्तं यत् २३ जून-दिनाङ्कः सर्वेषां कार्यकर्तॄणां कृते प्रेरणादायकः दिवसः अस्ति, यतः अस्मिन्नेव दिने डॉ.श्यामाप्रसादमुखर्जी राष्ट्रस्य एकतायाः अखण्डतायाश्च रक्षणार्थं जम्मू-कश्मीरस्य कारागारे स्वप्राणान् न्यवेदयत्। तेन स्वातन्त्र्यपूर्वकालेऽपि महान् संघर्षः कृत्वा पश्चिमवङ्गस्य भारतस्य अभिन्नाङ्गत्वं सुनिश्चितं कृतम्।
डॉ.मुखर्जी-महाभागस्य ऐतिहासिकसंघर्षं स्मारयन् अमितशाहः अवदत् यत् स्वातन्त्र्यानन्तरं अनुच्छेदस्य ३७० प्रवर्तनात् जम्मू-कश्मीरे पृथक् ध्वजः, पृथक् संविधानं, पृथक् प्रधानश्च आसीत्, यत् राष्ट्रस्य सार्वभौमत्वाय घातकम् आसीत्। तस्मिन् काले डॉ.मुखर्जी ‘एकस्मिन् देशे द्वे विधाने, द्वौ प्रधानौ, द्वे चिह्ने न चलिष्यतः’ इति घोषणया देहल्याः आरभ्य कश्मीरपर्यन्तं यात्राम् अकरोत्। अनुमतिपत्रं विना प्रवेशात् तं गृहीत्वा कारागारे स्थापितवन्तः। अमितशाहः सन्तोषं प्रकटयन् अवदत् यत् अनुच्छेदस्य ३७० निरसनस्य अनन्तरं डॉ.मुखर्जी-महाभागस्य तत् स्वप्नम् अद्य पूर्णतया साकारम् अभवत्।
केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः अवदत् यत् २०१४ तः आरभ्य देशस्य कृष्युत्पादने ४४ प्रतिशतवृद्धिः अभवत्, या हरितक्रान्तेः अपेक्षया अपि शीघ्रतरं विकासं दर्शयति। तेन उक्तं यत् कृषिमन्त्रालयस्य त्रीणि प्रमुखलक्ष्याणि सन्ति— खाद्यसुरक्षायाः सुनिश्चितीकरणम्, जनसामान्याय पोषकाहारस्य उपलब्धता, कृषकाणाम् आजीविकायाः सुदृढीकरणं च।
तेन पुनरुक्तं यत् अधिकोत्पादनकाले मूल्यपतनात् कृषकान् रक्षितुं न्यूनतमसमर्थनमूल्ये अभूतपूर्वपरिमाणेन क्रयः क्रियते। दलहन-तिलहनयोः आत्मनिर्भरतां साधयितुं विशेषमिशनम् आरब्धम् अस्ति, यस्य अन्तर्गतं अरहर-मसूर-माष-धान्यानां शतप्रतिशतं उत्पादनं न्यूनतमसमर्थनमूल्येन क्रेष्यते।
चौहानः नेफेडं प्रशंसन् अवदत् यत् नेफेडः एनसीसीएफ-संस्थया सह आधुनिकप्रौद्योगिकीम् उपयुज्य पारदर्शी-क्रयव्यवस्थां निर्मितवान्, यस्याः अन्तर्गतं क्रयानन्तरम् अष्टचत्वारिंशत्-घण्टाभ्यन्तरे कृषकस्य खाताय धनराशिः प्रेष्यते। पूर्वपञ्जीकरणव्यवस्था, क्रयकेन्द्रेषु सर्वसुविधानां व्यवस्था, कृषकहिताय कृताः उपायाश्च अतीव प्रशंसनीयाः सन्ति। तेन नेफेड-इत्यस्य सम्पूर्णदलाय अभिनन्दनं प्रदत्तम्।
अन्ते तेन उक्तं यत् नेफेड-इत्यस्य दृष्टिः केवलं देशान्तर्गतव्यापारपर्यन्तं न सीमिता, अपितु निर्यातक्षेत्रेऽपि तस्य विस्तारः प्रवर्तते। सहकारितामन्त्रालयेन प्रवर्तितः ‘सहकारात् समृद्धिः’ इति मन्त्रः अधुना देशस्य कोटिशः कृषकाणां जीवनमार्गदर्शकः अभवत्।
Hindusthan Samachar / Divya Ranjan