Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 23 जूनमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी मङ्गलवासरे भारतीयजनसङ्घस्य संस्थापकं प्रखरं राष्ट्रवादीचिन्तकं च डॉ श्यामाप्रसादमुखर्जी इत्येतं तस्य पुण्यतिथौ श्रद्धाञ्जलिम् अर्पयन् उक्तवान् यत् तेन देशहितं सर्वोपरि स्थापयित्वा राष्ट्रियैक्यस्य कृते महत्त्वपूर्णं योगदानं प्रदत्तम्। मुख्यमन्त्रिणः आवासे आयोजिते कार्यक्रमे धामी महोदयेन डॉ मुखर्जी इत्यस्य चित्रे पुष्पाञ्जलिः अर्पिता तथा च सः भावपूर्णतया स्मृतः। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् डॉ मुखर्जी इत्यस्य राष्ट्रस्य एकता अखण्डता सांस्कृतिकराष्ट्रवादस्य च प्रति समर्पितं जीवनं सर्वेषां कृते प्रेरणास्रोतः अस्ति। मुख्यमन्त्री उक्तवान् यत् डॉ मुखर्जी इत्यस्य त्यागः संघर्षः राष्ट्रसेवायाः आदर्शभावश्च भाविसंततीः सदा प्रेरयिष्यति। तेन राष्ट्रनिर्माणे प्रदत्तस्य तस्य अमूल्ययोगदानस्य प्रति नमनं कृत्वा विनम्रा श्रद्धाञ्जलिः अर्पितः।-----
Hindusthan Samachar / Dheeraj Maithani