Enter your Email Address to subscribe to our newsletters

- राष्ट्रपति मुर्मुर्द्वितीय नागरिक अलंकरण समारोहे 2 पद्म विभूषणं, 7 पद्म भूषणं 55 पद्म श्री पुरस्कारः च प्रदत्तानि
नव दिल्ली, 23 जूनमासः (हि.स.)।राष्ट्रपतिः द्रौपदीमुर्मुः मङ्गलवासरे राष्ट्रपतिभवनस्य गणतन्त्रमण्डपे आयोजिते नागरिकअलङ्करणसमारोहस्य द्वितीयचरणे अभिनेता ममूटी, पार्श्वगायिका अलकायाज्ञनिक, क्रिकेटक्रीडकः रोहितशर्मा, अभिनेता आर माधवन तथा पूर्वमुख्यमन्त्री शिबूसोरेन इत्यादीन् सहित्य चतुःषष्टि विशिष्टजनान् पद्मपुरस्कारैः सम्मानितवती। अस्मिन् अवसरे द्वौ पद्मविभूषणपुरस्कारौ, सप्त पद्मभूषणपुरस्काराः, पञ्चपञ्चाशत् पद्मश्रीपुरस्काराश्च प्रदत्ताः।
समारोहे केरलप्रदेशस्य प्रख्यातः मलयालमपत्रकारः पी नारायणन् साहित्यशिक्षाक्षेत्रे योगदानाय तथा उच्चतमन्यायालयस्य पूर्वन्यायाधीशः के टी थोमस् लोककार्यक्षेत्रे योगदानाय पद्मविभूषणपुरस्कारेण सम्मानितौ।
राष्ट्रपतिना मलयालमचलच्चित्रजगतः वरिष्ठः अभिनेता ममूटी स्वस्य दीर्घकालिकोत्कृष्टचलच्चित्रयोगदानाय पद्मभूषणपुरस्कारेण सम्मानितः। अस्मिन् अवसरे तस्य पुत्रः अभिनेता दुलकरसलमान अपि दर्शकदीर्घायाम् उपस्थितः आसीत् तथा च स्वपितरं राष्ट्रस्य सर्वोच्चनागरिकसम्मानेषु अन्यतमं सम्मानं प्राप्नुवन्तं दृष्टवान्। भारतीयसङ्गीतजगतः प्रसिद्धा गायिका अलकायाज्ञनिक स्वस्य बहुमूल्ययोगदानाय पद्मभूषणपुरस्कारेण सम्मानिता। एतदतिरिक्तं झारखण्डप्रदेशस्य पूर्वमुख्यमन्त्री आदिवासिनेता च शिबूसोरेनः मरणोपरान्तं पद्मभूषणपुरस्कारेण सम्मानितः। तस्य पुरस्कारं तस्य पत्नी रूपीसोरेन स्वीकृतवती। तथा च पूर्वटेनिसक्रीडकः विजयअमृतराजः, समाजसेवकः डॉ एस के एम मयिलानन्दन्, सामाजिकनेता वेल्लापल्लीनटेसन् तथा प्रख्यातः कर्कटरोगविशेषज्ञः डॉ दत्तात्रेयुडुनोरी अपि पद्मभूषणपुरस्कारेण सम्मानिताः।
राष्ट्रपतिना अभिनेता आर माधवनः भारतीयचलच्चित्रकला क्षेत्रयोः स्वीयोपलब्धीनां कृते पद्मसम्मानेन सम्मानितः। एतदतिरिक्तं पद्मश्रीपुरस्कारप्राप्तेषु भारतीयक्रिकेटदलस्य पूर्वकप्तानः रोहितशर्मा, भारतीयमहिलाहॉकीदलस्य पूर्वकप्ताना सवितापूनिया, तेलुगुअभिनेता राजेन्द्रप्रसादः, अभिनेता डॉ अनिलकुमाररस्तोगी, प्रौद्योगिकीविशेषज्ञः शशिशेखरवेम्पति, सन्थालीशिक्षाविद् चरणहेम्ब्रम्, कांस्योत्कीर्णनशिल्पी चिरञ्जीलालयादवः, आधुनिकअसमियारङ्गमञ्चस्य शिल्पकारः नुरुद्दीनअहमदः, मृदङ्गवादकः तिरुवारूरभक्तवत्सलम्, पदार्थभौतिकीवैज्ञानिकः डॉ कृष्णमूर्तिबालासुब्रमण्यम्, समाजसेवी बृजलालभट्टः, सन्तूरवादकः तरुणभट्टाचार्यः, जामदानीमलमलवस्त्रनिर्माणशिल्पी जोतिशदेबनाथः, रेशमविशेषज्ञः डॉ जोगेशदेउरी, तारपावादकः भिकल्यालाडक्याधिण्डा, मानवदुग्धसञ्चयकोषस्य अग्रणी डॉ अर्मिडाफर्नाण्डीज्, वैज्ञानिकः डॉ चन्द्रमौलिगड्डमनुगु, डॉ प्रेमलालगौतमः, कांस्यप्रतिमाशिल्पी डॉ राजस्थापतिकालियप्पागौण्डरः, डॉ पद्मागुरमेद्, अशोककुमारहालदारः, डॉ सुरेशहनगवाडी, वैमानिकवैज्ञानिकः डॉ शुभावेङ्कटेशअय्यङ्गारः, डेरासचखण्डबल्लां संस्थायाः सन्तः निरञ्जनदासः, सङ्गणकवैज्ञानिकः प्रो वी कामकोटि, शास्त्रीयगायिका प्रो मङ्गलाकपूरः, उद्योगपति डॉ अशोकखाडे, भाषाविद् डॉ लियुदमीलाखोखलोवा, शिक्षाविद् डॉ प्रभाकरबसप्रभुकोरे, कार्बीलोकगायिका पखीललेकथेपी, मोहिनीआट्टमगुरुः कलामण्डलमविमलामेनोन्, अभिनेता मागण्टिमुरलीमोहनः, पर्यावरणसंरक्षकः मोहननागरः, पशुचिकित्सावैज्ञानिकः डॉ पुण्यमूर्तिनटेसन्, हस्तकरघाशिल्पी सरतकुमारपात्रः, सीमाञ्चलपात्रः, नागालोककलासंरक्षकः गुरु सङ्ग्युसङ्गपोंगनरः, वरिष्ठप्रशासनिकाधिकारी रा वे सु मणिः, कृषिवैज्ञानिकः प्रो के रामासामी, कर्नाटकसङ्गीतयुगलकला कलाकारौ रजनी गायत्री च, प्रो महेन्द्रनाथरायः, जठरान्त्ररोगविशेषज्ञः डॉ प्रतीकशर्मा, पूर्वभारतीयपुलिससेवाधिकारी सरदारइन्दरजीतसिंहसिद्धू, हस्तकरघाभित्तिचित्रकलाकारः खेमराजसुन्द्रियालः, जनजातिक्षेत्रकार्यकर्ता बुधरीताती, वैज्ञानिकः डॉ कुमारासामीथङ्गराजः तथा जनजातीयसाहित्यकारः नरेशचन्द्रदेववर्मा प्रमुखाः सन्ति।
राष्ट्रपतिना पूर्वकेन्द्रीयमन्त्री तथा त्रिवारं संसद्सदस्यः कबीन्द्रपुरकायस्थः, अभिनेता सतीशशाहः, उद्योगपति टी टी जगन्नाथन्, सहकारिताक्षेत्रस्य अग्रणी रामारेड्डीमामिदी, मल्लयुद्धप्रशिक्षकः व्लादिमीरमेरिस्तवरीश्विली, बुन्देलीलोककलासंरक्षकः भगवान्दासरायकवारः, कृषिविशेषज्ञः रघुपतसिंहः तथा सन्थालीसाहित्यकारः रबीरलालटुडू मरणोपरान्तं पद्मश्रीपुरस्कारेण सम्मानिताः। एतेषां परिवारजनैः पुरस्काराः स्वीकृताः।
राष्ट्रपतिभवने आयोजिते अस्मिन् गरिमामयसमारोहे उपराष्ट्रपतिः सी पी राधाकृष्णन्, प्रधानमन्त्री नरेन्द्रमोदी, केन्द्रीयमन्त्रिपरिषदः सदस्याः, विविधक्षेत्राणां प्रमुखव्यक्तित्वानि तथा पुरस्कारविजेतृणां परिवारजनाः उपस्थिताः आसन्।
उल्लेखनीयं यत् राष्ट्रपतिः द्रौपदीमुर्मुः पञ्चविंशतितमे मईमासदिने आयोजिते नागरिकअलङ्करणसमारोहस्य प्रथमचरणे षट्षष्टि विशिष्टजनान् पद्मपुरस्कारैः सम्मानितवती। केन्द्रीयसर्वकारेण वर्ष २०२६ कृते कुलम् एकत्रिंशदधिकशतं पद्मपुरस्काराणां स्वीकृतिः प्रदत्ता, येषु पञ्च पद्मविभूषणपुरस्काराः, त्रयोदश पद्मभूषणपुरस्काराः तथा एकशतत्रयोदश पद्मश्रीपुरस्काराः समाविष्टाः सन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani