Enter your Email Address to subscribe to our newsletters


नवदेहली, २३ जूनमासः (हि.स.)। प्रधानमन्त्रीणः आर्थिक-परामर्श-परिषदः अध्यक्षः प्रो. एस.महेन्द्रदेवः मङ्गलवासरे उक्तवान् यत् फसल-विविधीकरणस्य, प्राकृतिक-कृषेः प्रोत्साहनस्य तथा उत्पादकतावृद्धेः कृते प्रोत्साहनं प्रदाय रासायनिक-उर्वरकाणां उपयोगः न्यूनी-कर्तव्यः।
अत्र आयोजिते फेडरेशन-ऑफ-इण्डियन-चेम्बर्स-ऑफ-कॉमर्स-एण्ड-इण्डस्ट्री-सङ्घस्य “इण्डिया इन्नोवेटिव क्रॉप न्यूट्रिशन कॉन्क्लेव–२०२६” इति कार्यक्रमे सम्बोधनं कुर्वन् प्रो.देवः एतद् अवदत्। तेन उक्तं यत् उर्वरकक्षेत्रे पोषकतत्त्वानां उपयोगदक्षतां वर्धयितुं नवाचारे विशेषं बलं दातव्यम्। तेनोक्तं यत् ‘विकसितभारतम्–२०४७’ इत्यस्य त्रीणि प्रमुखलक्ष्याणि सन्ति—प्रथमं भारतस्य विकसितराष्ट्रत्वम्, द्वितीयं रोजगारे मानवविकासे च समावेशिता, तृतीयं च स्थायि-जलवाय्वनुकूल-उपायैः एतयोः लक्ष्ययोः सिद्धिः।
ईएसी-पीएम-परिषदः अध्यक्षः अवदत् यत् २०४७ तमवर्षपर्यन्तं भारतस्य विकसित-राष्ट्रत्वप्राप्तौ कृषिक्षेत्रस्य महत्त्वपूर्णा भूमिका भविष्यति। तेन उक्तं यत् कृषेः विषये अस्माभिः दृष्टिकोणः परिवर्तनीयः। केवलम् उत्पादनवृद्धौ ध्यानं न दत्त्वा अन्येष्वपि पक्षेषु ध्यानं दातव्यम्। तेनोक्तं यत् त्रिषु प्रमुखेषु विषयेषु प्रथमः सस्यकर्तनोत्तर-कार्यकलापेषु विपणने च ध्यानम्, द्वितीयः अधिक-आयस्य रोजगारस्य च कृते खाद्य-कृषि-प्रसंस्करणस्य प्रोत्साहनम्, तृतीयः च लघुकृषकाणां निवेश-सामग्रीणां विपणने उत्पादविपणने च साहाय्यप्रदानम्। एतदर्थं कृषक-उत्पादक-सङ्घटनानां सहकारी-समितीनां च आवश्यकता वर्तते।
स्वसम्बोधने प्रो.देवः तेषां सुधार-कार्यक्रमाणामपि उल्लेखम् अकरोत्, येषु नीम्-कोटेड् यूरिया, डायरेक्ट बेनिफिट ट्रान्स्फर, सॉइल हेल्थ कार्ड, नैनो-यूरिया, पीएम-प्रणाम-योजना, प्राकृतिक-कृषि-प्रयत्न: तथा न्यूट्रिएण्ट-बेस्ड सब्सिडी-सिस्टम इत्यादयः समाविष्टाः सन्ति। तेन उक्तं यत् अग्रिमपदक्षेपरूपेण ‘नेशनल न्यूट्रिएण्ट यूज़ एफिशिएन्सी इनीशिएटिव’ इत्यस्य विषये विचारः करणीयः। अस्य उद्देश्यं प्रयुज्यमान-उर्वरकस्य मात्रायाः अपेक्षया तस्मात् लभ्यमानायां उत्पादकतायां ध्यानं केन्द्रीकर्तुम् अस्ति।
Hindusthan Samachar / Divya Ranjan