Enter your Email Address to subscribe to our newsletters

रायपुरम्, २३ जूनमास: (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी बस्तरप्रदेशस्य उल्लेखं कुर्वन् अवदत् यत् यत्र कदाचित् आतङ्कस्य हिंसायाश्च वातावरणम् आसीत्, तत्र अद्य युवाशक्तिः क्रीडायाः प्रतिभायाश्च माध्यमेन प्रकाशते। बस्तर-ओलम्पिक-इत्यादिषु आयोजनेषु लक्षाधिकानां यूनां सहभागिता अस्य परिवर्तनस्य सशक्तं प्रमाणम् अस्ति। एतत् दर्शयति यत् तत्रत्याः युवानः अधुना हिंसामार्गं न स्वीकुर्वन्ति, अपितु अवसरस्य, शिक्षायाः, क्रीडायाः, विकासस्य च मार्गम् अनुसरन्ति। एषा सूचना राज्यस्य सूचना-विभागेन स्ववक्तव्ये प्रदत्ता।
प्रधानमन्त्री नक्सलवादस्य विरुद्धं देशस्य सङ्घर्षं विकासस्य जनविश्वासस्य च विजयम् इति वर्णयन् अवदत् यत् सर्वकारेण नक्सलवादः माओवादी-हिंसा च समूलं निर्मूलयितुं सङ्कल्पः कृतः आसीत्, तस्य च सकारात्मकाः परिणामाः अधुना समग्रदेशस्य पुरतः दृश्यन्ते। तेन उक्तं यत् येषु क्षेत्रेषु पूर्वं भयस्य, हिंसायाः, अविश्वासस्य च वातावरणम् आसीत्, तेषु अधुना विकासस्य, सुशासनस्य, नवीनावसराणां च युगः आरब्धः अस्ति।
प्रधानमन्त्री अवदत् यत् एकस्मिन् काले नक्सल-प्रभावितेषु क्षेत्रेषु सामान्यजनाः निरन्तरं भयच्छायायां जीवनं यापयितुं विवशाः आसन्। ते स्वसुरक्षायाः, आजीविकायाः, सम्मानस्य च विषये सदैव चिन्तिताः आसन्। विकासकार्याणि प्रवर्तयितुम् अत्यन्तं कठिनम् आसीत्। मार्गनिर्माणात् आरभ्य सञ्चारसुविधानां विस्तारपर्यन्तं सर्वेषां प्रयासानां हिंसात्मकः विरोधः क्रियते स्म। बहुवारं निर्माणसामग्री दग्धा, ठेकेदाराः भीतिभिः पलायिताः, विकासकार्याणि च अवरुद्धानि।
तेन उक्तं यत् एतासां समस्यानाम् अपि मध्ये सर्वकारेण नक्सल-प्रभावितेषु क्षेत्रेषु विकासः सर्वोच्चप्राथमिकतया स्वीकृतः। गतवर्षेषु सहस्रशः किलोमीटर-दीर्घाः मार्गाः निर्मिताः, सहस्रशः चलदूरभाष-स्तम्भाः स्थापिताः, दूरस्थग्रामेषु सञ्चारसुविधाः च प्रसारिताः। धनागार-सेवाभिः, डाक-सेवाभिः, वित्तीय-समावेशनस्य योजनाभिश्च जनाः विकासस्य मुख्यधारया सह संयोजिताः। एतत् परिवर्तनं केवलम् आधारभूत-संरचनानां विस्तारं न, अपितु जनानां जीवने विश्वासस्य अवसराणां च विस्तारः इति तेन प्रतिपादितम्।
प्रधानमन्त्री स्पष्टतया अवदत् यत् नक्सलवादविरुद्धः सङ्घर्षः केवलं बम-शस्त्र-गोलीभिः न विजितः, अपितु सुरक्षायाः सह जनसामान्यस्य आशाः आकाङ्क्षाश्च पूरयितुं समानरूपेण प्रयत्नाः कृताः। शासनस्य योजनाः अन्तिमजनपर्यन्तं प्रापिताः, निर्धनेभ्यः अधिकाराः प्रदत्ताः, लोकतन्त्रे विश्वासः च सुदृढीकृतः। तस्य परिणामस्वरूपम् अद्य नक्सल-प्रभावितेषु क्षेत्रेषु जनानां लोकतान्त्रिक-व्यवस्थायां विकास-प्रक्रियायां च विश्वासः वर्धितः अस्ति।
मुख्यमन्त्री विष्णुदेवसायः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी-महाभागस्य ‘नेशन फर्स्ट’ इति सङ्कल्पः, दूरदर्शीनेतृत्वं, सुरक्षा-बलानां अदम्य-साहसं च बस्तरसहितस्य समग्रस्य नक्सल-प्रभावित-प्रदेशस्य स्वरूपं परिवर्तितवन्ति।
तेन पुनरुक्तं यत् यत्र पूर्वं नक्सलवादस्य आतङ्कः आसीत्, तत्र अधुना विकासस्य आत्मविश्वासः दृश्यते। मार्ग-शिक्षा-स्वास्थ्य-सञ्चार-धनागार- तथा जन-कल्याण-योजनानां विस्तारः जन-जीवने अभूतपूर्वं परिवर्तनम् आनयत्।
Hindusthan Samachar / Divya Ranjan