पंचमुखी हनुमान मंदिरे सप्तशतकिलोपरिमितस्य आम्रस्य भोगः
जयपुरम्, 23 जूनमासः (हि.स.)। मोतीडूंगरीस्थे प्रसिद्धे पञ्चमुखीहनुमन्मन्दिरे मङ्गलवासरे भगवान् हनुमते सप्तशतकिलोग्रामपरिमितानाम् आम्रफलानां विशेषभोगः समर्पितः। ग्रीष्मऋतुम् आम्रफलकालं च दृष्ट्वा मन्दिरपरिसरे आम्रफलैः भव्याकर्षका च झाङ्की सज्जिता,
पंचमुखी हनुमान मंदिर में 700 किलो आम का भोग


जयपुरम्, 23 जूनमासः (हि.स.)।

मोतीडूंगरीस्थे प्रसिद्धे पञ्चमुखीहनुमन्मन्दिरे मङ्गलवासरे भगवान् हनुमते सप्तशतकिलोग्रामपरिमितानाम् आम्रफलानां विशेषभोगः समर्पितः। ग्रीष्मऋतुम् आम्रफलकालं च दृष्ट्वा मन्दिरपरिसरे आम्रफलैः भव्याकर्षका च झाङ्की सज्जिता, या श्रद्धालूनां मनांसि मोहितवती। मन्दिरे प्रातःकाले विशेषपूजार्चनायाः आरात्रिकायाश्च अनन्तरं हनुमते आम्रफलभोगः निवेदितः। ततः पश्चात् श्रद्धालूनां कृते दर्शनार्थं द्वाराणि उद्घाटितानि।

सम्पूर्णदिने बहुसंख्यकाः भक्ताः मन्दिरम् आगतवन्तः तथा आम्रफलैः सज्जितायाःप्रदर्शिन्याः दर्शनं कृत्वा सुखसमृद्ध्योः मङ्गलकामनायाश्च प्रार्थनाम् अकुर्वन्। मन्दिरस्य पुजारी गोविन्ददासः अवदत् यत् ग्रीष्मकाले आम्रफलस्य विशेषं धार्मिकमहत्त्वं मन्यते। अस्याः परम्परायाः अनुसारेण पञ्चमुखीहनुमन्मन्दिरे प्रतिवर्षम् आम्रफलभोगः समर्प्यते। अस्मिन् वर्षे अपि सप्तशतकिलोग्रामपरिमितैः आम्रफलैः भगवतः विशेषशृङ्गारः कृतः तथा भव्यप्रर्दशिनी सज्जिता।

तेन उक्तं यत् भोगे उपयुक्तैः आम्रफलैः बुधवासरे रसः निर्मास्यते, यः मन्दिरम् आगच्छद्भ्यः श्रद्धालुभ्यः प्रसादरूपेण वितरिष्यते। एतदर्थं मन्दिरप्रशासनेन विशेषव्यवस्थाः कृताः, येन यथासम्भवं अधिकाधिकाः श्रद्धालवः प्रसादस्य लाभं प्राप्तुं शक्नुयुः।

आम्रफलैः सज्जितायाः मनोहारिण्याः झाङ्क्याः विशेषभोगस्य च दर्शनार्थं सम्पूर्णदिने मन्दिरे भक्तानां निरन्तरम् आगमनम् अभवत्। श्रद्धालवः विधिविधानपूर्वकं पूजार्चनां कृत्वा हनुमतः आशीर्वादं प्राप्तवन्तः।

---------------

Hindusthan Samachar / Dheeraj Maithani