राष्ट्रिय खेलपरिषदः अध्यक्षेण द्व्याभ्यां सदस्याभ्याम् आवेदनम्आमंत्रितम्, 22 जुलाई यावत् शक्ष्यन्ति आवेदनम्
नवदिल्ली, 23 जूनमासः (हि.स.)। युवाकार्यक्रमक्रीडामन्त्रालयेन राष्ट्रियक्रीडामण्डले अध्यक्षस्य द्वयोः सदस्ययोः च पदयोः चयनार्थम् आवेदनानि आमन्त्रितानि। एषा नियुक्तिः राष्ट्रियक्रीडाशासनअधिनियम २०२५ तथा राष्ट्रीयक्रीडाशासन राष्ट्रियक्रीडामण्डल नियम
युवा कार्यक्रम एवं खेल मंत्रालय लोगो


नवदिल्ली, 23 जूनमासः (हि.स.)।

युवाकार्यक्रमक्रीडामन्त्रालयेन राष्ट्रियक्रीडामण्डले अध्यक्षस्य द्वयोः सदस्ययोः च पदयोः चयनार्थम् आवेदनानि आमन्त्रितानि। एषा नियुक्तिः राष्ट्रियक्रीडाशासनअधिनियम २०२५ तथा राष्ट्रीयक्रीडाशासन राष्ट्रियक्रीडामण्डल नियम २०२६ इत्येतयोः प्रावधानानुसारं क्रियते।

मन्त्रालयस्य अनुसारं एतेषु पदेषु नियुक्तिः केन्द्रीयसर्वकारेण अन्वेषणसहचयनसमितेः अनुशंसानां आधारेण क्रियते। चयनः तादृशेषु व्यक्तिषु क्रियते येषां लोकप्रशासने, क्रीडाप्रशासने, क्रीडाविधौ तथा सम्बद्धक्षेत्रेषु ज्ञानं व्यावहारिकानुभवः वा अस्ति तथा च येषां क्षमता, प्रामाणिकता, प्रतिष्ठा च सुप्रतिष्ठिता अस्ति।

क्रीडामन्त्रालयेन स्पष्टतया उक्तं यत् चयनितानाम् अध्यक्षस्य सदस्ययोः च वेतनं तथा अन्याः सेवाशर्ताः राष्ट्रीयक्रीडाशासन राष्ट्रीयक्रीडामण्डल नियम २०२६ इत्यनुसारं निर्धारिताः भविष्यन्ति।

राष्ट्रियक्रीडामण्डलं देशे राष्ट्रीयक्रीडासंस्थानां मान्यताप्रदायिनी केन्द्रीयसंस्थारूपेण कार्यं करिष्यति। तदतिरिक्तं एतत् क्रीडासङ्गठनेषु सुशासनस्य, वित्तीयपारदर्शितायाः, नैतिकमानकानां च अनुपालनस्य निरीक्षणमपि करिष्यति।

इच्छुकाः पात्राश्च अभ्यर्थिनः क्रीडामन्त्रालयस्य ऑनलाइनपोर्टले आवेदनं कर्तुं शक्नुवन्ति। आवेदनसमर्पणस्य अन्तिमा तिथिः २२ जुलै २०२६ इति निर्धारिताऽस्ति।।

---------------

Hindusthan Samachar / Dheeraj Maithani