Enter your Email Address to subscribe to our newsletters

कोलकाता, 23 जूनमासः (हि. स.)। पश्चिमबङ्गस्य मुख्यमंत्री शुभेन्दु अधिकारी जनसंघस्य संस्थापकं डॉ. श्यामा प्रसाद मुखर्जी बलिदानदिवसे श्रद्धाञ्जलिम् अर्पितवान्। मङ्गलवासरे प्रातः स्वस्य एकस्मिन् सन्देशे मुख्यमन्त्री डॉ मुखर्जीं भारतस्य एकतायाः अखण्डतायाः च रक्षणार्थं स्वजीवनं समर्पितवन्तं प्रखरराष्ट्रवादीनेतारं वर्णितवान्।
मुख्यमन्त्री शुभेन्दु अधिकारी स्वसन्देशे उक्तवान् यत् भारतस्य एकतायाः अखण्डतायाः च रक्षणार्थं जीवनमुत्सृष्टवन्तं प्रखरराष्ट्रवादीनेतारं जनसंघस्य संस्थातारं पश्चिमबङ्गस्य जनकं भारतकेसरी डॉ श्यामा प्रसाद मुखर्जीं तस्य बलिदानदिवसे शतशः नमामि।
तेन उक्तं यत् डॉ श्यामा प्रसाद मुखर्जेः जीवनं राष्ट्रहितस्य सांस्कृतिकचेतनायाः भारतस्य अखण्डतायाः प्रति अखण्डप्रतिबद्धतायाः च प्रतीकरूपेण आसीत्। देशस्य एकतायै तेन कृतः संघर्षः तस्य बलिदानं च सर्वदा स्मरिष्यते।
Hindusthan Samachar / Dheeraj Maithani