Enter your Email Address to subscribe to our newsletters

पौड़ी, गढ़वाल, 23 जून (हि.स.)।
भारतीयजनतापार्टीस्य पौडीजिला-कार्यालये जनपदाध्यक्षस्य कमलकिशोर-रावतस्य अध्यक्षतायां भारतीयजनसंघस्य संस्थापकस्य, महानराष्ट्रवादी-चिन्तकस्य तथा प्रखरशिक्षाविदः भारतरत्नस्य डॉ. श्यामा-प्रसादमुखर्जीमहाभागस्य बलिदान-दिवसस्य पावनावसरे श्रद्धाञ्जलिसभा आयोजिता।
अस्मिन् उपलक्ष्ये पक्षपदाधिकारिणः कार्यकर्तारश्च डॉ.श्यामाप्रसाद-मुखर्जीमहाभागस्य चित्रे श्रद्धासुमनानि समर्प्य राष्ट्राय तेन कृतं महत्त्वपूर्णं योगदानं स्मृतवन्तः।
कार्यक्रमे मुख्यातिथिरूपेण चण्डीप्रसाद-भट्टः, पौडीविधायकः राजकुमारपोरी, यशपालबेनाम, अनुजकुमारः, नरेन्द्र-प्रसादटम्टा, प्रह्लादसिंहरावतः, क्रान्ति-किशोरनेगी, कलजीखालमण्डलाध्यक्षः लक्ष्मण-दुकलानः, कोटमण्डलाध्यक्षः रमेशरावतः, लक्ष्मणसिंहनेगी, सुभाषः, राकेशगौरशाली, स्वप्निलधस्माना इत्यादयः बहवः कार्यकर्तारः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani