केन्द्रीयराज्यमन्त्री जॉर्जकुरियनः त्यागपत्रम् अयच्छत्
नवदेहली, २३ जूनमासः (हि.स.)। केन्द्रीय-अल्पसंख्यक-कार्य-मन्त्रालयस्य तथा मत्स्यपालन-पशुपालन-दुग्धव्यवसाय-विभागस्य राज्यमन्त्री जॉर्जकुरियनः मङ्गलवासरे केन्द्रीयमन्त्रिपरिषदः स्वस्य त्यागपत्रम् अददात्। राष्ट्रपतिभवनात् प्रकाशितायाः आधिकारिक-प्रेस-व
केन्द्रीयराज्यमन्त्री जॉर्जकुरियनः त्यागपत्रम् अयच्छत्


नवदेहली, २३ जूनमासः (हि.स.)। केन्द्रीय-अल्पसंख्यक-कार्य-मन्त्रालयस्य तथा मत्स्यपालन-पशुपालन-दुग्धव्यवसाय-विभागस्य राज्यमन्त्री जॉर्जकुरियनः मङ्गलवासरे केन्द्रीयमन्त्रिपरिषदः स्वस्य त्यागपत्रम् अददात्।

राष्ट्रपतिभवनात् प्रकाशितायाः आधिकारिक-प्रेस-विज्ञप्तेः अनुसारेण राष्ट्रपतिः द्रौपदी शमुर्मुः तस्य त्यागपत्रं तत्क्षणप्रभावेण स्वीकृतवती। एषः निर्णयः भारतस्य संविधानस्य अनुच्छेदस्य ७५ खण्डस्य (२) अन्तर्गतं प्रधानमन्त्रिण: नरेन्द्रमोदिनः परामर्शानुसारं कृतः।

Hindusthan Samachar / Divya Ranjan