Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, २३ जूनमास: (हि.स.)। अयोध्यास्थितस्य श्रीरामजन्मभूमि-मन्दिरस्य दानराशेः कथितानियमिततायाः अन्वेषणार्थं गठितेन विशेष-अन्वेषण-दलेन स्वस्य प्रारम्भिक-अन्वेषण-प्रतिवेदनं मङ्गलवासरे उत्तरप्रदेश-सर्वकाराय समर्पितम्। विशेष-अन्वेषण-दलस्य सदस्यैः अपर-मुख्य-सचिवाय सञ्जयप्रसादाय तत् प्रतिवेदनं समर्पितम्।
श्रीरामजन्मभूमि-तीर्थक्षेत्र-न्यासस्य अनुरोधानुसारं राज्य-सरकारेण गत-१३ जून-दिनाङ्के त्रिसदस्यात्मकस्य विशेष-अन्वेषण-दलस्य गठनं कृतम्। न्यासेन मुख्यमन्त्रिणः योगी-आदित्यनाथस्य समीपे विशेष-अन्वेषण-दलस्य गठनं कृत्वा कथितानियमिततासम्बद्धानाम् आरोपाणाम् अन्वेषणस्य आग्रहः कृतः।
विशेष-अन्वेषण-दले लखनऊ-मण्डलायुक्तः विजयविश्वासपन्तः, परिक्षेत्र-महानिरीक्षकः किरण-एस, वित्त-विभागस्य विशेष-सचिवः नीलरतनः च समावेशिताः। विजयविश्वासपन्तः तथा किरण-एस् प्रारम्भिक-अन्वेषण-प्रतिवेदनं राज्य-सर्वकाराय समर्पितवन्तौ।
Hindusthan Samachar / Divya Ranjan