वनानि केवलं प्राकृतिकसम्पदः न, अपितु सांस्कृतिकधरोहराणि—राज्यपालः
नैनीतालः, २३ जूनमासः (हि.स.)। राज्यपालः लेफ्टिनेन्ट्-जनरलः गुरमीतसिंहः अवदत् यत् वनानि केवलं प्राकृतिकसम्पदः न, अपितु अस्माकं सांस्कृतिकधरोहरस्य, पारिस्थितिक-सन्तुलनस्य तथा मानवसभ्यतायाः संरक्षकाः सन्ति। सः उक्तवान् यत् वनकर्मिणः प्रकृतेः वास्तविका
नैनीताल लोकभवन में पुस्तकों का विमोचन करते राज्यपाल।


नैनीतालः, २३ जूनमासः (हि.स.)। राज्यपालः लेफ्टिनेन्ट्-जनरलः गुरमीतसिंहः अवदत् यत् वनानि केवलं प्राकृतिकसम्पदः न, अपितु अस्माकं सांस्कृतिकधरोहरस्य, पारिस्थितिक-सन्तुलनस्य तथा मानवसभ्यतायाः संरक्षकाः सन्ति। सः उक्तवान् यत् वनकर्मिणः प्रकृतेः वास्तविकाः प्रहरिणः सन्ति, ये कठिनपरिस्थितिष्वपि समर्पित-भावेन वनानां वन्यजीवानां च रक्षणार्थं कार्यं कुर्वन्ति।

नैनीतालस्थिते लोकभवने आयोजिते ‘प्रकृतेः प्रहरिणः’ इति वनकर्मी-सम्मान-तथा-पुस्तक-विमोचन-समारोहे राज्यपालः वन-वन्यजीव-संरक्षण-क्षेत्रे उल्लेखनीयं योगदानं दत्तवन्तः वनकर्मिणः सम्मानितवान्। सः अवदत् यत् भीषण-वनाग्निषु, प्राकृतिक-विपत्तिषु, कठिनपरिस्थितिषु च वनकर्मिणः स्वप्राणानाम् अपि चिन्तां विना हरितसम्पदः रक्षणं कुर्वन्ति।

अस्मिन्नवसरे राज्यपालेन ‘राजाजी में पूर्णिमा की वह रात’, ‘कॉमन बर्ड्स ऑफ अल्मोड़ा एण्ड नैनीताल’, ‘फ्रॉम रूट्स टू रिचेज’ तथा ‘बीहाइव फेन्सिङ्ग’ इति पुस्तकानां विमोचनम् कृतम्। तेन उक्तं यत् एतानि पुस्तकानि प्रकृतिसंरक्षणस्य, जैवविविधतायाः, आजीविका-संवर्धनस्य तथा नवाचारस्य विविधान् आयामान् प्रकाशयन्ति। राज्यपालः अवदत् यत् भारतीयसंस्कृतौ वनानि देवतुल्यानि मन्यन्ते तथा वेदानाम् उपनिषदां च रचना वनप्रदेशेष्वेव अभवत्। सः अपि अवदत् यत् जलवायुपरिवर्तनस्य वैश्विकतापनस्य च समस्यानां मध्ये उत्तराखण्डस्य भूमिका अत्यन्तं महत्त्वपूर्णा अस्ति, यतः राज्यस्य प्रायः एकसप्ततिः प्रतिशतं भूभागः वनाच्छादितः अस्ति।

सः चिपको-आन्दोलनस्य तथा गौरादेव्याः योगदानस्य उल्लेखं कृत्वा जन-सहभागिताया: आधारितस्य प्रकृतिसंरक्षणस्य आवश्यकतां प्रतिपादितवान्। राज्यपालः ‘बीहाइव फेन्सिङ्ग’ इत्येतादृशीं योजनां मानव-वन्यजीव-संघर्षस्य न्यूनीकरणे कृषकाणां च आयवृद्धौ उपयोगिनीम् इति वर्णितवान्। सः प्रधानमन्त्री नरेन्द्रमोदिनः ‘एक: वृक्ष: मातुः नाम्ना’ इति अभियानस्य उल्लेखं कृत्वा प्रकृतिसंरक्षणं जनान्दोलनरूपेण प्रवर्तयितुम् आह्वानम् अकरोत्।

कार्यक्रमस्य प्रारम्भे कार्बेट्-व्याघ्र-अभयारण्यस्य निदेशकः डाॅ. साकेतबडोला स्वागतभाषणम् अददात्, अपरः प्रमुख-वनसंरक्षकः (वन्यजीवः) डाॅ.विवेकपाण्डेयः अपि स्वविचारान् प्रकटितवान्। अस्मिन्नवसरे प्रमुख-वनसंरक्षिका (कुमाऊँ) डाॅ.तेजस्विनी अरविन्द-पाटिल:, वनविभागस्य वरिष्ठ-अधिकारीणः, वैज्ञानिकाः, शोधकर्तारः, सम्मानिताः वनकर्मिणः तथा अन्ये गणमान्यजनाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan