उपराष्ट्रपतिना, लोकसभाध्यक्षेण, गृहमन्त्रिणा च सह अनेकैः नेतृभिः डॉ. श्यामाप्रसादमुखर्जी महाभागाय श्रद्धाञ्जलिरर्पिता
नवदेहली, २३ जूनमासः (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णनः, लोकसभाध्यक्षः ओम् बिडला, केन्द्रीय-गृहमन्त्री अमितशाहः इत्येतै: च सह अनेके प्रमुख-नेतारः भारतीय-जनसंघस्य संस्थापकं प्रख्यातं शिक्षाविदे च डॉ.श्यामाप्रसादमुखर्जी-महाभागाय तस्य बलिदान-दिव
डॉ. श्यामा प्रसाद मुखर्जी  (फाइल फोटो)।


नवदेहली, २३ जूनमासः (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णनः, लोकसभाध्यक्षः ओम् बिडला, केन्द्रीय-गृहमन्त्री अमितशाहः इत्येतै: च सह अनेके प्रमुख-नेतारः भारतीय-जनसंघस्य संस्थापकं प्रख्यातं शिक्षाविदे च डॉ.श्यामाप्रसादमुखर्जी-महाभागाय तस्य बलिदान-दिवसे श्रद्धाञ्जलिम् अर्पयन्तः राष्ट्रस्य एकतायाः अखण्डतायाश्च प्रति तस्य महत्त्वपूर्णं योगदानम् अस्मरन्।

उपराष्ट्रपतिः राधाकृष्णनः डॉ. मुखर्जी-महाभागं दूरदर्शिनं नेतारं, प्रख्यातं शिक्षाविदं दृढदेशभक्तं च वर्णयन् अवदत् यत् भारतस्य एकतायाः अखण्डतायाश्च कृते तस्य बलिदानम्, विकसित-भारत-निर्माणाय च तस्य अपूर्व: संकल्पः अग्रिमवंशान् निरन्तरं प्रेरयिष्यति।

लोकसभाध्यक्षः ओम् बिडला अवदत् यत् डॉ.मुखर्जी भारतस्य एकताम्, अखण्डतां सार्वभौमत्वं च सर्वोपरि मन्यमानः स्वसिद्धान्तेभ्यः कदापि न विचलितः। राष्ट्रभक्तेः, सांस्कृतिक-चेतनायाः तथा राष्ट्रीय-एकीकरणस्य भावनायाः प्रसाराय तेन स्वसम्पूर्णं जीवनं समर्पितम्।

केन्द्रीय-गृहमन्त्री सहकारिता-मन्त्री च अमितशाहः तम् राष्ट्रस्य एकताया: अखण्डतायाश्च प्रखरम् उपासकम् इति वर्णयन् उक्तवान् यत् डॉ. मुखर्जी कश्मीरे ‘द्वे विधाने, द्वौ प्रधानौ, द्वे चिह्ने’ इत्यस्य व्यवस्थायाः मुखरं विरोधम् अकरोत् तथा वङ्गप्रदेशस्य भारतस्य अभिन्नभागत्वस्य संरक्षणार्थमपि संघर्षम् अकरोत्। तेन उक्तं यत् ‘राष्ट्रं प्रथमम्’ इति तस्य संकल्पः अद्यापि देशं प्रेरयति।

रक्षामन्त्री राजनाथसिंहः अवदत् यत् डॉ. मुखर्जी राष्ट्रीयैक्यस्य, सांस्कृतिक-अस्मितायाः तथा लोकतान्त्रिक-मूल्यानां संरक्षणे अविस्मरणीयं योगदानम् अददात्। तस्य साहसं, दृढसंकल्पः, बलिदानं च अद्यापि कोटिशः भारतीयान् प्रेरयति।

केन्द्रीय-मार्ग-परिवहन-राजमार्गमन्त्री नितिनगडकरी अवदत् यत् डॉ. मुखर्जी सत्तां त्यक्त्वा राष्ट्रस्य एकतायै अखण्डतायै च स्वसर्वस्वं समर्पितवान्, यत् राष्ट्रं सदा स्मरिष्यति।

केन्द्रीय-स्वास्थ्य-परिवार-कल्याणमन्त्री जगत्प्रकाशनड्डा अवदत् यत् डॉ.मुखर्जी-महाभागस्य जीवनं देशभक्तेः, त्यागस्य, अटलसंकल्पस्य च जीवन्तम् उदाहरणम् अस्ति। भारतीय-जनसंघात् आरभ्य अद्यतन-भारतीय-जनता-पक्षपर्यन्तं सांस्कृतिक-राष्ट्रवादस्य प्रवाहः तस्य दूरदर्शितायाः प्रमाणम् इति तेन उक्तम्।

उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः डॉ.मुखर्जीं ‘एकस्मिन् देशे द्वे विधाने, द्वौ प्रधानौ, द्वे चिह्ने न चलिष्यतः’ इत्यस्य उद्घोषकः इति वर्णयन् अवदत् यत् भारतस्य एकतायाः अखण्डतायाश्च कृते तस्य सर्वोच्चं बलिदानं प्रत्येकं भारतीयस्य हृदये राष्ट्रभावनां सदैव प्रज्वालयिष्यति।

हरियाणा-राज्यस्य मुख्यमन्त्री नायबसिंहसैनी अवदत् यत् राष्ट्रस्य एकतायाः, अखण्डतायाः, स्वाभिमानस्य च कृते डॉ. मुखर्जी-महाभागस्य योगदानम् तथा तस्य अपूर्व: संकल्पः अद्यापि देशवासिनां प्रेरणास्रोतः अस्ति।

राजस्थानस्य मुख्यमन्त्री भजनलालशर्मा अवदत् यत् डॉ. मुखर्जी-महाभागस्य जीवनं राष्ट्रभक्तेः, अदम्य-साहसस्य, अखण्ड-भारताय समर्पणस्य च प्रेरकं उदाहरणम् अस्ति। तस्य विचाराः आदर्शाश्च विकसितस्य, सशक्तस्य, आत्मनिर्भरस्य भारतस्य निर्माणे सदैव मार्गदर्शकाः भविष्यन्ति।

मध्यप्रदेशस्य मुख्यमन्त्री मोहनयादवः अवदत् यत् ‘राष्ट्रं प्रथमम्’ इति भावना तथा राष्ट्रस्य अखण्डतायै डॉ. मुखर्जी-महाभागस्य दृढः संकल्पः सर्वदा देशवासिनः प्रेरयिष्यति। राष्ट्रं तस्य योगदानस्य अनन्तकालपर्यन्तं ऋणी भविष्यतीति तेन उक्तम्।

Hindusthan Samachar / Divya Ranjan