देशस्य ७८० जनपदेषु त्रिकोट्यधिकैः जनैः योगाभ्यासः कृतः
नवदेहली, २३ जूनमासः (हि.स.)। द्वादशतमस्य अन्ताराष्ट्रिययोगदिवसस्य अवसरे अस्मिन् वर्षे देशे विश्वे च अभिलेखीयः जनसहभागः दृष्टः। आयुषमन्त्रालयस्य अनुसारं देशस्य ३६ राज्येषु केन्द्रशासितप्रदेशेषु च स्थितेषु ७८० जनपदेषु ३.०७ कोट्यधिकैः जनैः योगकार्यक्र
योग दिवस के मौके पर योग करते लोग


योग दिवस के मौके पर हाथियों के बीच योग करते लोग


नवदेहली, २३ जूनमासः (हि.स.)। द्वादशतमस्य अन्ताराष्ट्रिययोगदिवसस्य अवसरे अस्मिन् वर्षे देशे विश्वे च अभिलेखीयः जनसहभागः दृष्टः। आयुषमन्त्रालयस्य अनुसारं देशस्य ३६ राज्येषु केन्द्रशासितप्रदेशेषु च स्थितेषु ७८० जनपदेषु ३.०७ कोट्यधिकैः जनैः योगकार्यक्रमेषु सहभागिता कृता। अपरञ्च ७.६४ लक्षाधिकैः संस्थाभिः अस्मिन् राष्ट्रव्यापि-अभियाने सहभागिता प्रदर्शिता। अस्य वर्षस्य योगदिवसस्य विषयः “स्वस्थायुषे योगः” इति आसीत्।

मङ्गलवासरे आयुषमन्त्रालयेन प्रकाशितायां विज्ञप्तौ उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदी कोलकातानगरस्य ऐतिहासिके रेड्-रोड्-स्थले आयोजितस्य मुख्यकार्यक्रमस्य योगसत्रस्य नेतृत्वम् अकरोत्, यस्मिन् प्रायः ३५ सहस्रजनाः सहभागी अभवन्। योगदिवसस्य उत्साहः भारतस्य सीमाभ्यः परम् अपि दृष्टः। अमेरिका, फ्रान्स, जर्मनी, मिस्रदेशः इत्यादिषु बहुषु देशेषु योगकार्यक्रमाः आयोजिताः। न्यूयॉर्कस्थिते संयुक्त-राष्ट्रसङ्घस्य मुख्यालये तथा विश्वस्य प्रमुखनगरेषु अपि जनाः योगाभ्यासं कृत्वा स्वास्थ्यस्य सद्भावस्य च सन्देशं प्रसारितवन्तः। देशेऽपि ऐतिहासिक-सांस्कृतिकस्थलेषु विशेष-योगसत्राणि आयोजितानि। तेषु लालकिला, कोणार्कस्य सूर्यमन्दिरम्, हम्पी, गेटवे-ऑफ्-इण्डिया, चारमीनारः तथा नालन्दा-महाविहारः इत्यादीनि प्रतिष्ठितस्थलानि समाविष्टानि आसन्।

आयुषमन्त्रालयेन उक्तं यत् योगसङ्गम-पटले देशस्य विभिन्नभागेभ्यः ७.४६ लक्षाधिकाः छायाचित्राणि उपारोपितानि तथा २.६६ लक्षाधिकानि सहभागिता-प्रमाणपत्राणि निर्गतानि। सङ्घटनात्मक-सहभागितायां पश्चिमबङ्गः, राजस्थानम्, मध्यप्रदेशः, असमः तथा उत्तरप्रदेशः अग्रस्थानं प्राप्तवन्तः। रक्षामन्त्रालयेन अपि सियाचिन-हिमनदात् आरभ्य कन्या-कुमारीपर्यन्तं समुद्रीयक्षेत्रेषु च योगकार्यक्रमाः आयोजिताः। अपरञ्च राष्ट्रिय-कैडेट्-कोर ८३ लक्षाधिकैः कैडेटछात्रै: ५,००० अधिकेषु स्थलेषु सामूहिकयोगसत्रेषु सहभागिता कृता।

Hindusthan Samachar / Divya Ranjan