Enter your Email Address to subscribe to our newsletters

नवदेहली, २३ जूनमास: (हि.स.)। भारतीयजनसङ्घस्य संस्थापकस्य डॉ.श्यामाप्रसादमुखर्जी-महाभागस्य बलिदानदिवसावसरे भारतीयजनतापक्षेण तस्मै श्रद्धाञ्जलिः समर्पिता। मङ्गलवासरे भाजपादलस्य राष्ट्रियाध्यक्षः नितिननवीनः स्वसन्देशे अवदत्— “प्रखरः राष्ट्रवादी-चिन्तकः मातु: भारत्याः अखण्डतायै स्वसर्वस्वं समर्पितवान् डॉ.श्यामाप्रसाद-मुखर्जी-महाभागः। तस्य बलिदानदिवसे तस्मै कोटिशः प्रणामान् समर्पयामि।”
सः अवदत् यत् “एकस्मिन् राष्ट्रे द्वौ विधानौ, द्वौ प्रधानौ, द्वे चिह्ने च न भविष्यतः” इति तस्य सङ्कल्पः केवलं घोषवाक्यम् एव नासीत्, अपितु राष्ट्रस्य एकतायाः अखण्डतायाश्च दृढः संकल्पः आसीत्। जम्मू-कश्मीरस्य पूर्णैकीकरणाय तस्य संघर्षः बलिदानं च भारतीय-इतिहासे अमिटरूपेण अंकितम् अस्ति।
नितिननवीनः उक्तवान् यत् डॉ.मुखर्जी-महाभागेन भारतीयजनसङ्घस्य स्थापना कृता, येन राष्ट्रवादी-विचारधारायै सशक्ता दिशा प्रदत्ता। स्वविचारैः, साहसेन, त्यागेन च “राष्ट्रं प्रथमम्” इति भावः जनं जनं प्रति प्रसारितः।
तस्य जीवनम् एवं बलिदानम् अस्मान् सदा प्रेरयति यत् राष्ट्रहितं सर्वोपरि इति मनसि निधाय भारतस्य एकतायै, अखण्डतायै, स्वाभिमानरक्षणाय च सर्वथा प्रयत्नः करणीयः। एष एव तस्मै प्रदेया सत्या श्रद्धाञ्जलिः भविष्यति।
Hindusthan Samachar / Divya Ranjan